________________
१२०
अध्यात्मोपनिषत्
दम्भेन पूर्णज्ञाननिर्दोषताऽडम्बरेण नास्तिकै र्जगद् वञ्चयतेज्ञानोत्पतिं समुद्भाव्य, कामादीनन्यदृष्टितः ।
अपह्नवानै र्लोकेभ्यो, नास्तिकै र्वञ्चितं जगत् ॥ ३९॥ स्वाऽऽत्मनि ‘ज्ञानोत्पत्तिं समुद्भाव्य' ज्ञानं पूर्णज्ञानमुत्पन्नमेवेति, अविद्यमानमपि विद्यमानत्वेनोद् भावनं प्रकटनं कृत्वा, पूर्णज्ञानिनः कथं कामादिदोषवन्त इति दम्भगर्भितवाक्योच्चारद्वाराऽन्येषां दृष्टिपथं दोषा नानयेयुरिति दम्भनीतितः, लोकेभ्यो- मुग्धलोकेभ्यः कामादीन्-कामाज्ञानक्रोधलोभभयहास्यरागादिदोषान्, अन्यदृष्टौ धूलिप्रक्षेपं कृत्वाऽपनुवानै:दम्भतोऽपह्नवं- उपरिस्थगनक्रियां कुर्वाणै र्नास्तिकैर्वञ्चितं जगत् यथा मायिकै धूर्तेः कश्चिद् इन्द्रजालादिकं दर्शयित्वा वञ्च्यते-धनादिस्वर्णादिकं गृहीत्वा धनादिरहितः क्रियते तथाऽत्रापि क्रियाज्ञानरहितं जगत् कृत्वा मिथ्यात्वकूपे क्षिप्त्वा ज्ञानक्रियारूपधर्मश्रद्धाधनरहितं नास्तिकै र्जगत् क्रियते इति ॥ ३९॥
:
-
ज्ञानस्य परिपाकजन्यक्रियाऽसङ्गक्रिया भवतिज्ञानस्य परिपाकाद्धि, क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्यं, चन्दनादिव सौरभम् ॥ ४० ॥ निर्विकल्पो निर्विषयो यः सदाऽऽत्मशुद्धस्वभावालम्बनरूपो ज्ञानपरिपाकः स शमः समतायोगः कथ्यते शमनामकविशिष्टसमतायोगरूपज्ञानपरिपाकप्रयुक्ता क्रियाऽसङ्गत्वमङ्गति या क्रिया-ज्ञानादिकाराधनाऽभ्यासातिशयाद् यदाऽऽत्माऽभिन्ना-आत्मतादात्म्यावच्छिन्ना भवति सा क्रियाऽसङ्गत्वं - रागादिसङ्गशून्यसहजदशां प्राप्नोति - साऽसङ्गक्रिया समुच्यते यथेत्युदाहरणे यथा चन्दनाच्चन्दनतः सौरभं स्वसुगन्धिता पार्थक्यंपृथक्त्वं, प्रयाति-प्रकर्षेण न याति गच्छति, अर्थाच्चन्दनाऽभिन्नं सौरभं चन्दनेन