________________
तृतीय क्रियायोगाशुद्धिनामकऽधिकार
पूर्वोक्तविषयं विशदयतिसम्प्राप्त-केवलज्ञाना अपि यज्जिनपुङ्गवाः। क्रियां योगनिरोधाख्यां कृत्वा सिद्धयन्ति नाऽन्यथा।३७।
'सम्प्राप्तकेवलज्ञानाअपि यज्जिन-पुङ्गवाः= 'यस्मात्कारणात्, सामान्यजिनादिषु मुख्या जिनपुङ्गवा जिनेश्वराः, अप्रतिपातित्वेनाऽनन्तत्वेन 'सं' सम्यक्तया प्राप्तं-आत्मसात्कृतं केवलज्ञानं येषां ते, सम्प्राप्तकेवलज्ञाना जिनेश्वरा अपि (अन्येषां तु का वात॑त्यपिना द्योत्यते) योगनिरोधाऽऽख्यां क्रियां कृत्वा सिद्ध्यन्ति नाऽन्यथा' मनोवच:काययोगात्मकनिरोधात्मिकां क्रियामन्तमुहूर्त्तकालं पर्यन्तं कृत्वाऽ योगिकेवली भूत्वा सिद्धा भवन्ति 'नाऽन्यथा' योगनिरोधाख्यां क्रियामकृत्वा न सिद्धिगतौ गच्छन्ति (योगनिरोधनामकान्तिम-क्रियायाः प्रक्रियाऽन्यत्रान्वेषणीयैव) ॥ ३७॥
ये ज्ञानक्रियोभयतो भ्रष्टास्ते नास्तिका एवतेन ये क्रियया मुक्ता, ज्ञानमात्राऽभिमानिनः। ते भ्रष्टा ज्ञानकर्मभ्यां, नास्तिका नात्र संशयः॥ ३८॥ 'तेन' हेतुना ये आत्मानः, क्रियया-स्वस्वधर्मशासनविहितकर्मणा रहिताः-क्रियाऽभावनिश्चयवन्तः, 'ज्ञानमात्राभिमानिनः, ज्ञानमेव' सारमित्यभिमानिनः-ज्ञानलवदुर्विदग्धाः वयमेव सर्वज्ञा इति मिथ्याभिमानिन:वस्तुतोऽज्ञानभावनिश्चयवन्तः, ते-आत्मानः, भ्रष्टा ज्ञानकर्मभ्यां ज्ञानतोऽपि भ्रष्टाः कर्मतोऽपि भ्रष्टा उभयतोऽपि भ्रष्टाः, भ्रष्टज्ञाना भ्रष्टकर्माणश्च नीरतीरभ्रष्टहस्तिवदतो भ्रष्टास्ततो भ्रष्टा भवन्ति, अत एव।
नास्तिका-नास्ति ज्ञानं, नास्ति क्रिया, न स्तो ज्ञानकर्मणी, साध्यसिद्धावादात्मपरमात्मपरलोकपुण्यपापसद्गतिदुर्गति-शिवगत्यादिविषयकास्तिक्यरहिताः, नास्तिका एव नात्र संशय इति ॥ ३८॥