________________
११८
अध्यात्मोपनिषत् रथो गच्छति, ज्ञानं च सत्पुरुषक्रमश्च =ज्ञानसत्पुरुषक्रमौ, ज्ञानपरमपुरुषविहिताचरितक्रियारूपाचारौ ज्ञानेन सहैव सत्पुरुषक्रियारूपाचारः, अभ्यसनीयः-पुनःपुन:कार्यः सत्पुरुषाचारेण सहैव ज्ञानं सममभ्यसनीयं यावन सममभ्यस्तौ ज्ञानसत्पुरुषक्रियाचाररूपक्रमौ, 'तावन्नैतयोरेकोऽपि पुरुषस्येह सिध्यति-तावदेतयो निसत्पुरुषक्रमयो मध्यादेकोऽपि सत्पुरुषक्रमरूपक्रियारूपोऽप्यथवा ज्ञानरूप एकोऽपि योगः, इहजन्मन्यस्मिन्न सिध्यति-साध्यसिद्धिरेकाऽपि न भवति प्रत्युताऽतो भ्रष्ट स्ततो भ्रष्ट इत्यवदशायां गच्छति साधुरिति ॥ ३५ ॥
ज्ञानकर्मणी परस्परव्याप्ते सहैव गच्छतः सहैव तिष्ठतश्चयथा छाद्मस्थिके ज्ञान-कर्मणी सह गत्वरे। क्षायिके अपि विज्ञेये, तथैव मतिशालिभिः॥३६॥ यथेत्युदाहरणे 'छाद्मस्थिके' सति घातिकर्मणि क्षयोपशमजनिते क्षायोपशमिके ज्ञानं च कर्म च ज्ञानकर्मणी उभे छद्मस्थावस्था-गमनाऽनन्तरं ज्ञानकर्मणी 'सह गत्वरे सहैव ज्ञानं च कर्म चोभे गमन शीले तथैव-तेन प्रकारेण' 'क्षायिके अपि' घातिकर्मक्षयाद्यनन्तरं ज्ञानकर्मणी-केवलज्ञानं च योगनिरोधरूपा क्रिया च सहैव केवलज्ञानेन सहैव योगनिरोधक्रिया, योगनिरोधक्रियया सह केवल ज्ञानं च सिद्धिगतौसिद्धैः सह शाश्वतस्थिति गत्वा-प्राप्य तिष्ठतः, इति मतिशालिभि:-बुद्धिशालिभिर्विज्ञेये इति क्षायिकज्ञानक्रिययोः सह स्थानित्व-स्वभावः-परस्परसङ्गतत्त्व-व्याप्तिस्वभावःततः क्षायोपशमिकक्षायिकदशाभेदेऽप्येक (सहव्याप्ति) प्रकृतिके ज्ञानकर्मणी स्तः, क्षायोपशमिकयो र्गमनमपि सहैव क्षायिकयोः स्थितिरपि ज्ञानकर्मणोः सहैवेति, ज्ञानं मुक्त्वा न क्रिया, च क्रियां मुक्त्वा न ज्ञानं च कदाचिदपि क्षायोपशमिके स्यातामथवा क्षायिके स्यातां सहैव गच्छतःसहैव तिष्ठत इति बोध्यम्॥ ३६॥