________________
तृतीय क्रियायोगाशुद्धिनामकऽधिकार
१२१ सह तादात्म्यसम्बन्धेन सदा तिष्ठति, तथा शमनामकज्ञानपरिपाकाऽभिन्नाऽसङ्गक्रिया भवति, ज्ञानपरिपाकेन-पूर्णज्ञानेन सह तादात्म्यसम्बन्धेनावच्छिन्नाऽसङ्गक्रियाऽस्ति 'प्रीतिभक्तिरूपानुष्ठानानन्तरं जिनेश्वरदेवप्रणीतवचनानुसारि-पुरुषार्थकरणप्रवणो महात्मा, जिनवचनश्रवणयुक्तवास्तविकपरिपक्वज्ञानेन सह सर्वत्रोचितप्रवृत्तिकारको महापुरुषः, असङ्गक्रियया सह सङ्गच्छतेऽत्र ज्ञानक्रियाभेदाभावरूपोऽभेद ऐकात्म्यं भवति, असङ्गानुष्ठानभूमिकायां भावरूपक्रिया, शुद्धोपयोगश्च, शुद्धवीर्योल्लासश्चेत्येतत् त्रयं, तादात्म्यं-अभेदसंबन्धेनावच्छिन्नं भवति, क्रियोपयोगवीर्योल्लासानां त्रयाणां तादात्म्येन योगिनः सहजानन्दामृतरसजन्यपरमतृप्तिमनुभवन्तीति' ॥ ४० ॥ ___ प्रीत्यादिभेदैरनुष्ठानं चतुर्विधं गीतं दर्शनान्तरीययोगिभिस्तत्सर्व-मित्थं
युज्यते
प्रीतिभक्ति-वचोऽसङ्गै-रनुष्ठानं चतुर्विधम् । यत्परै र्योगिभि गीतं, तदित्थं युज्यतेऽखिलम्॥४१॥
प्रीतिनामकमनुष्ठानं, भक्तिनामकमनुष्ठानं, वचोनामकमनुष्ठानं, चाऽसङ्गनामकमनुष्ठानमेवं चतुर्भिः प्रकारैरनुष्ठानं यद् दर्शनाऽन्तरीयैःपरै र्योगिभिर्गीतं कथितमस्ति, तदखिलं-सर्वमित्थमेवं युज्यते-युक्तं भवति, अत्र सदनुष्ठानस्य चत्वार:प्रकारा:श्रीषोडशकप्रकरणे श्रीमद् हरिभद्रसूरीश्वरैदर्शितास्तथा श्रीयोगविंशिका-ग्रन्थे टीकायां श्रीमन्महोपाध्याय-श्री यशोविजयगणिवरैरपि चतुर्णामनुष्ठानानां स्पष्टं वर्णनं कृतमस्ति, ___ (१) प्रीतियोगनामकसदनुष्ठानं सदनुष्ठानत्वेन तदर्शकसद्गुरुभगवजिनेश्वरादीन् प्रति परमादरपूर्वकपरम-प्रीतिः, प्रयत्नाऽतिशयश्च तथा शेषत्यागेन च यत्क्रियते तत् प्रीत्यनुष्ठानम्, ।
(२) भक्तियोगनामकसदनुष्ठानम्-यत्र पूर्वोक्तवस्तु-त्रयं वर्तते परन्तु आलम्बनीयमाश्रित्य भेदोऽस्ति, भक्त्यनुष्ठाने, आलम्बनीये विशिष्ट