Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 147
________________ १२२ अध्यात्मोपनिषत् पूज्यताबुद्धिरुत्पद्यते ततः प्रवृत्तिर्विशुद्धतरा भवति, 'अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात् प्रीतिभक्तिगतं ॥ " ( योगवि . ) "गौरवविशेषयोगाद् बुद्धिमतो यद् विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानं " ( दशम षो, .) 44 (३) वचोयोगनामकसदनुष्ठानम्=शास्त्रार्थप्रतिसन्धानपूर्वा साधोः सर्वत्रोचित - प्रवृत्ति: (योग विं.) "वचनाऽऽत्मिकप्रवृत्तिः सर्वत्रौचित्ययोगतो या तु वचनानुष्ठानमिदं चारित्रवतो नियोगेन " श्रीषोड योगदृष्टिसमुच्चये शास्त्रयोगः कथ्यते, (४) असङ्गयोगनामक-सदनुष्ठानम् - चिरकालपर्यन्तं जिनवचांसि मनसिकृत्यानुष्ठातु र्महात्मनो जीवने ज्ञानाद्याराधनाऽऽत्मसादेकरसीभावमापन्ना यथा चन्दनात् सौरभं भवति तदा सहजरूपाऽसङ्गानुष्ठानं। “यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥" ( दशम षो. ) 'अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे' (षो. ) 'अर्थाऽऽलम्बनयो चैत्यवन्दनादौ विभावनम् । श्रेयसे योगिनःस्थानवर्णयो र्यन एव च ॥' 'प्रीतिभक्तिवचोऽसङ्गगैः स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्ते मक्षयोगः क्रमाद् भवेत् ॥' अत्र स्थान - वर्णार्थालंबनानालम्बनादि ध्येयमिति (ज्ञानसारे) ॥ ४१ ॥ परमपदप्रयाणे ज्ञानक्रिययोर्युगपत्स्वीकारः ज्ञाने चैव क्रियायां च युगपद्विहितादरः । द्रव्य - भावविशुद्धः सन् प्रयात्येव परं पदम् ॥ ४२ ॥ 'ज्ञाने चैवेति' संप्राप्तकेवलज्ञाने च योगनिरोधाख्यक्रियायां च 'युगपत्'

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178