Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१२३
तृतीय क्रियायोगाशुद्धिनामकऽधिकार एकसमयावच्छेदेन न तु द्वितीयसमयस्तत्र तथा न तु क्रमेण-प्राक्ज्ञाने पश्चात् क्रियायां चेति विहितादर:-परमादरपूर्वकस्वीकारकारी द्रव्यभावविशुद्ध:सन् द्रव्ये च भावे च विशुद्धः विशुद्धकेवलज्ञानादिसिद्धत्वपर्यायविशुद्धचेतनादिसकलगुणविशिष्ट- द्रव्यरूपात्मनि च क्षायिकेऽतएव विशुद्धभावे सति आत्मद्रव्यमपि विशुद्धं भाव्यं, तद्भावोऽपि विशुद्धो भाव्यः, भावस्यार्थोऽत्रं स्वरूपवाचकोऽस्ति सर्वथा सर्वदा स्वरूपस्वरूपवतो विशुद्धयैव परमपदप्राप्तिरस्तीति तत्र परमपदप्रयाणसमयेऽपि युगपज्ज्ञानक्रियास्वीकारो वाच्यो द्रव्यभावविशुद्धि र्वाच्येति ॥४२॥
उपसंहारे विशिष्टमहामंगलरूपमुनीन्द्राणां श्लोकद्वयं गीयते (भुजंगप्रयातम् )क्रिया-ज्ञान-संयोग-विश्रान्त-चित्ताः, समुद्भूतनिर्बाध-चारित्रवृत्ताः। नयोन्मेषनिर्णीतनिःशेषभावा, स्तपः शक्तिलब्धप्रसिद्धप्रभावाः॥४३॥ भयक्रोधमायामदा-ज्ञान निद्राप्रमादोज्झिता शुद्धमुद्रा मुनीन्द्राः। यशःश्रीसमालिङ्गिता वादिदन्ति-, स्मयोच्छेदहर्यक्षतुल्या जयन्ति॥४४॥
'मुनीन्द्रा जयन्ति' कीदृशा मुनीन्द्राः? इत्याह ‘क्रियाज्ञानसंयोगविश्रान्तचित्ताः'-क्रिया च ज्ञानं च क्रियाज्ञाने तयोः, संयोगे-समन्वये, विश्रान्तं-विश्रान्तिकारि चित्तं-मानसं येषां ते 'क्रियाज्ञान मोगविश्रान्तचित्ताः' पुन:की.मुनीन्द्राः? इत्याह 'समुद्भूतनिर्बाधचारित्रवृत्ताः' तत एव

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178