SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२३ तृतीय क्रियायोगाशुद्धिनामकऽधिकार एकसमयावच्छेदेन न तु द्वितीयसमयस्तत्र तथा न तु क्रमेण-प्राक्ज्ञाने पश्चात् क्रियायां चेति विहितादर:-परमादरपूर्वकस्वीकारकारी द्रव्यभावविशुद्ध:सन् द्रव्ये च भावे च विशुद्धः विशुद्धकेवलज्ञानादिसिद्धत्वपर्यायविशुद्धचेतनादिसकलगुणविशिष्ट- द्रव्यरूपात्मनि च क्षायिकेऽतएव विशुद्धभावे सति आत्मद्रव्यमपि विशुद्धं भाव्यं, तद्भावोऽपि विशुद्धो भाव्यः, भावस्यार्थोऽत्रं स्वरूपवाचकोऽस्ति सर्वथा सर्वदा स्वरूपस्वरूपवतो विशुद्धयैव परमपदप्राप्तिरस्तीति तत्र परमपदप्रयाणसमयेऽपि युगपज्ज्ञानक्रियास्वीकारो वाच्यो द्रव्यभावविशुद्धि र्वाच्येति ॥४२॥ उपसंहारे विशिष्टमहामंगलरूपमुनीन्द्राणां श्लोकद्वयं गीयते (भुजंगप्रयातम् )क्रिया-ज्ञान-संयोग-विश्रान्त-चित्ताः, समुद्भूतनिर्बाध-चारित्रवृत्ताः। नयोन्मेषनिर्णीतनिःशेषभावा, स्तपः शक्तिलब्धप्रसिद्धप्रभावाः॥४३॥ भयक्रोधमायामदा-ज्ञान निद्राप्रमादोज्झिता शुद्धमुद्रा मुनीन्द्राः। यशःश्रीसमालिङ्गिता वादिदन्ति-, स्मयोच्छेदहर्यक्षतुल्या जयन्ति॥४४॥ 'मुनीन्द्रा जयन्ति' कीदृशा मुनीन्द्राः? इत्याह ‘क्रियाज्ञानसंयोगविश्रान्तचित्ताः'-क्रिया च ज्ञानं च क्रियाज्ञाने तयोः, संयोगे-समन्वये, विश्रान्तं-विश्रान्तिकारि चित्तं-मानसं येषां ते 'क्रियाज्ञान मोगविश्रान्तचित्ताः' पुन:की.मुनीन्द्राः? इत्याह 'समुद्भूतनिर्बाधचारित्रवृत्ताः' तत एव
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy