________________
१२४
अध्यात्मोपनिषत् सञ्जातं यद् निर्बाधं-बाधारहितं प्रतिबन्धकरहितमुच्चतमं चारित्रं संयमविशेषस्तेन वृत्ताः-छत्रायिता:-समलंकृता इत्यर्थः पुन:की मुनीन्द्राः? इत्याह 'नयोन्मेषनिर्णीत-नि:शेषभावाः' नयानां पूर्णविकासरूपोन्मेषेण निर्णीताः-निर्णयपथं-प्रमाणपथमानीता नि:शेषाः-समस्ता भावाः-पदार्था
यैस्ते, पुन:की मुनीन्द्राः? इत्याह, 'तपः-शक्तिलब्धप्रसिद्धप्रभावाः'विशिष्टतपसः, शक्तितोबलेन लब्धः, अत एव प्रसिद्धः-प्रसिद्धि प्राप्तः प्रभावो-माहात्म्यं-महिमा येषां ते, पुन:की मुनीन्द्राः ? इत्याहभयक्रोधमायामदाज्ञाननिद्रा-प्रमादोज्झिता:-भयं च क्रोधश्च माया च मदाश्चाज्ञानं च निद्रा च प्रमादश्चेत्याख्या ये दोषास्तैरुज्झिता:-रहिता, पु. की. मु. ? इत्याह-'शुद्धमुद्राः' प्रसन्नवदना अत एव निर्मलमर्यादाशोभिता इत्यर्थः, पु.की.मु.? इत्याह-वादिदन्तिस्मयोच्छेदहर्यक्षतुल्याः' वादिन एव दन्तिनो-हस्तिनस्तेषां यः स्मयो गुणाभिमानजन्यगुरुत्वं, तस्योच्छेदे सर्वथा विनाशे हर्यक्षेण-सिंहेन तुल्या-समाना इत्यर्थः, पु.की मुनीन्द्राः सन्तो जयन्ति? इत्याह यशः श्रीसमालिङ्गिता जयन्ति(कर्तुं नामापि ज्ञेयं)यश:-सर्वदिग्गामियश:-कीर्तिरूपलक्ष्मीतः सम्यग् आलिङ्गिताः आश्लेषयुक्ता मुनीन्द्रा जयन्ति-सर्वोत्कर्षेण वर्तन्ते अर्थात् पूर्वोक्तसर्वविशेषणविशिष्टा मुनीन्द्रा जयन्ति जगत्यां इति ॥ ४३ ॥ ४४॥ इति श्री पण्डितनयविजयगणिशिष्यपंण्डितपद्मविजयगणिसहोदरो
पाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे
क्रियायोगशुद्धि? नामा तृतीयोऽधिकारः समाप्तः। इति आचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधर- विजय भुवनतिलकसूरीश्वर पट्टधर विजयभद्रंकरसूरिणाऽध्यात्मोपनिषत्प्रकरणे रचितायां
भुवनतिलकाख्यायां टीकायां क्रियायोगशुद्धिनामा तृतीयोऽधिकारसमाप्तः।