________________
( चतुर्थःसाम्ययोगशुद्धिनामाधिकारः ) ज्ञाननामकक्रियानामकघोटकद्वययुक्तसाम्यरथाधिरूढःशिवमार्गगामी भवति-( उपजातिः) ज्ञानक्रियाऽश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी। न ग्रामपू:कण्टकजारतीनां जनोऽनुपानत्क इवार्त्तिमेति? ॥१॥
ज्ञानं च क्रिया च ज्ञानक्रिये, ते एवाश्वद्वयं घोटक-द्वितयं तेन युक्तो यः साम्यनामको रथस्तत्राधिरूढः-आसीनः साम्ययोगी, शिवमार्गगामीसम्यग्दर्शनज्ञान-चारित्रात्मकमोक्षमार्ग प्रति गमनशीलो भवति, इव-यथा जनोमनुष्यः, अनुपानत्क:पादत्राणरहितः, 'ग्रामपू:कण्टकजारतीनां नाऽर्तिमेति ?' ग्रामनगरगतकण्टक:जन्यानामरतीनां-स्वस्थतारहितानां व्याकुलतानामर्ति-पीडामेति नेति ? अर्थादार्तिमेत्येव अनुपानत्कः, तथाऽविघ्नेनससुखं ज्ञानक्रियासहितसमतारथारूढ : साम्ययोगी शिवमार्गगामी सन् शिवंगमी भवतीति ॥ १ ॥
लोकोत्तरं साम्यमुपैति योगी - आत्मप्रवृत्तावतिजागरूकः, परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी।२।
'लोकोत्तरं साम्यमुपैति योगी' ज्ञानक्रियायोगी, अपूर्वमद्भुतं साम्यंसमभावं प्राप्नोति कीदृशो योगी ? इत्याह 'आत्मप्रवृत्तावतिजागरूकः'