________________
१२६
अध्यात्मोपनिषत्
स्वहितकारिसमस्तक्रियायामत्यन्ताप्रमत्तः, पुनः की योगी ? इत्याह 'परप्रवृत्तौ बधिरान्धमूकः' स्वात्मभिन्नभौतिकपौद्गलिकक्रियाविषये बधिर इव पौद्गलिकशब्दादिकं न शृणोति, अन्ध इव पौगलिकरूपं पश्यत्यपि न पश्यति, मूक इव मौनं धारयति पौद्गलिकरागादिवर्धकवचनोच्चारं न करोत्येव। ___पुनः की. योगी ? इत्याह 'सदा चिदानन्दपदोपयोगी' निरन्तरंप्रतिसमयं केवलज्ञानानन्तानन्दपदरूप आत्मनि निर्वाणे वा उपयोग:ध्यानं-विशिष्टं मनः तेन विशिष्ट-उपयोगी।
एतादृशविशेषणत्रयविशिष्टो ज्ञानक्रियायोगी लोकोत्तरं विशिष्टममुकगुणस्थानगतसमताभावं प्राप्नोतीत्यर्थः॥ २ ॥
साम्ययोगी परिषहोपसर्गाभ्यां निश्चलो भवतिपरीषहैश्च प्रबलोपसर्गयोगाच्चलत्येव न साम्ययुक्तः। स्थैर्याद् विपर्यासमुपैति जातु, क्षमा न शैलै न च सिन्धुनाथैः॥३॥
'परीषहैश्च' स्वकर्मजन्यान्तरिक-क्षुत्परीषहादिद्वाविंशतिपरीषहैश्च 'प्रबलोपसर्गयोगात्' देवादिपरबाह्यकृतप्रबलोपसर्गानामुपद्रवानामुत्पातानां योगात्-सम्बन्धात्, न साम्ययोगी चलत्येव। ___ यथा क्षमा-स्थिराऽचलत्वात् पृथ्वी, (क्रोधाभावरूपक्षमा,) जातुकदाचित् शैलः-स्वाधारपर्वतै र्गुरूच्चभूतै भयङ्करै नै स्थैर्याद् विपर्यासमस्थिरतामुपैति, जातु-कदाचित्, 'सिन्धुनाथैः' सिन्धूनां-नदीनां नाथैः स्वाधेय-विशाललम्बायमानै-र्भयावहै: सागरैश्च न स्थैर्याद् विपर्यासमस्थिरतामुपैति ॥ ३॥