Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
११२
अध्यात्मोपनिषत् सत्यमर्धस्वीकारेऽव्ययं अर्धस्वीकरणीयं पूर्वोक्तमस्ति परन्तु आगमे कथिता क्रिया, सञ्चितादृष्टस्यअनादिसहजकर्ममलस्य नाशाय, ज्ञानिनोऽपि-सम्यग्ज्ञानवतोऽपि ज्ञानतोऽप्यनाश्यसहजकर्ममलप्रक्षालनाय, क्रियानाश्यकर्मनाशाय, आगमक्रिया उपयुज्यते-उपयोगवती-सप्रयोजना-सफला भवत्येवं, एतद्विषये 'सञ्चिताऽदृष्टनाशार्थं नासूरोऽपि यदभ्यधात्' नासूरनामकाभियुक्ततम-वेदान्ताचार्योऽपि कथयामास, तदग्रेतनश्लोके कथयिष्यते ॥ २०॥
तण्डुलस्य यथा वर्म, यथा ताम्रस्य कालिका। नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम्॥ २१॥ जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् । नश्यत्येव न सन्देह-स्तस्मादुद्यमवान् भव ॥२२॥
'यथा तण्डुलस्य' वर्म-उपरिस्थकवच (त्वक्) सदृशमलं; 'यथा ताम्रस्य कालिका'-कालस्य भावः कालिका-मालिन्यं वैवयं हे पुत्र ! क्रियया विशिष्टोपायपूर्वकपुरुषार्थबलेन नश्यति, तथा पुरुषस्य-आत्मनोऽनादि-सिद्धसहजमलरूपसञ्चितादृष्टं, विशिष्टपुरुषार्थरूपक्रियाबलेन नश्यत्येव, यथा तण्डुलस्य तथा जीवस्याऽऽत्मनः सहजमलं-सञ्चितादृष्टमपि अलं-समर्थमपि नश्यत्येवात्र सन्देहः-शड्का न कर्त्तव्या, हे पुत्र! तस्मात् सहजमलरूपसञ्चितादृष्टनाशायोद्यमवान्-पुरुषार्थरूपक्रियाशाली भव-सज्जो भव। तादृशपुरुषार्थरुपक्रियायां शक्तिरेवंविधाऽस्ति यतस्तद् बलेन सञ्चितादृष्टरूप-कर्म विनश्यत्येव यत एतत् क्रियानाश्यं, न ज्ञाननाश्यमस्ति ॥ २१॥ २२ ॥
दर्शनभेदे शब्दभेदे सत्यपि कर्मणःपर्याया एतेअविद्या च दिक्षा च, भवबीजं च वासना। सहजं च मलं चेति, पर्यायाः कर्मणः स्मृताः॥ २३॥

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178