SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११२ अध्यात्मोपनिषत् सत्यमर्धस्वीकारेऽव्ययं अर्धस्वीकरणीयं पूर्वोक्तमस्ति परन्तु आगमे कथिता क्रिया, सञ्चितादृष्टस्यअनादिसहजकर्ममलस्य नाशाय, ज्ञानिनोऽपि-सम्यग्ज्ञानवतोऽपि ज्ञानतोऽप्यनाश्यसहजकर्ममलप्रक्षालनाय, क्रियानाश्यकर्मनाशाय, आगमक्रिया उपयुज्यते-उपयोगवती-सप्रयोजना-सफला भवत्येवं, एतद्विषये 'सञ्चिताऽदृष्टनाशार्थं नासूरोऽपि यदभ्यधात्' नासूरनामकाभियुक्ततम-वेदान्ताचार्योऽपि कथयामास, तदग्रेतनश्लोके कथयिष्यते ॥ २०॥ तण्डुलस्य यथा वर्म, यथा ताम्रस्य कालिका। नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम्॥ २१॥ जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् । नश्यत्येव न सन्देह-स्तस्मादुद्यमवान् भव ॥२२॥ 'यथा तण्डुलस्य' वर्म-उपरिस्थकवच (त्वक्) सदृशमलं; 'यथा ताम्रस्य कालिका'-कालस्य भावः कालिका-मालिन्यं वैवयं हे पुत्र ! क्रियया विशिष्टोपायपूर्वकपुरुषार्थबलेन नश्यति, तथा पुरुषस्य-आत्मनोऽनादि-सिद्धसहजमलरूपसञ्चितादृष्टं, विशिष्टपुरुषार्थरूपक्रियाबलेन नश्यत्येव, यथा तण्डुलस्य तथा जीवस्याऽऽत्मनः सहजमलं-सञ्चितादृष्टमपि अलं-समर्थमपि नश्यत्येवात्र सन्देहः-शड्का न कर्त्तव्या, हे पुत्र! तस्मात् सहजमलरूपसञ्चितादृष्टनाशायोद्यमवान्-पुरुषार्थरूपक्रियाशाली भव-सज्जो भव। तादृशपुरुषार्थरुपक्रियायां शक्तिरेवंविधाऽस्ति यतस्तद् बलेन सञ्चितादृष्टरूप-कर्म विनश्यत्येव यत एतत् क्रियानाश्यं, न ज्ञाननाश्यमस्ति ॥ २१॥ २२ ॥ दर्शनभेदे शब्दभेदे सत्यपि कर्मणःपर्याया एतेअविद्या च दिक्षा च, भवबीजं च वासना। सहजं च मलं चेति, पर्यायाः कर्मणः स्मृताः॥ २३॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy