SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तृतीय क्रियायोगाशुद्धिनामक ऽधिकार आत्मनोऽनाहारित्वगुणवृद्धिफल-जनिकाऽथवाऽऽहारसंज्ञानामकदोषक्षयफलजनिका तपश्चर्यानामकक्रिया प्रसिद्धाऽस्ति 'गुरुसेवा - विनयक्रिया'नम्रता - लघुताज्ञानादिगुणवृद्धिफलजनिका गुरुसेवा - विनयवैयावृत्त्यादिक्रिया । तीर्थयात्राक्रिया सिद्धगिरिरैवतगिरि सम्मेतशिखरादितीर्थेषु क्रियमाणा तीर्थयात्राक्रिया परमात्मानं प्रति प्रीति- भक्ति - पूजा - बहुमानादिसम्यक्त्वादिगुणवृद्धिफलजनिका भवति तथाचैवंरीत्या दान - शील- तपःस्वाध्यायसंलेखना - अनशनविविधाऽभिग्रहादिरूपशुभक्रिया अभिनवात्मगुण- वृद्धिदोषक्षयादिरूपफलजनिकैव यतः छद्मस्थजीवानां संयमस्याऽध्यवसायस्य स्थानानि चञ्चलानि - प्रतिपातस्वभावानि ये संपूर्णगुणपूर्णा केवलिनस्तेषां स्वगुणानां प्रतिपातभयाऽभावात् संयमस्थानमेकमप्रतिपाति शाश्वतमवतिष्ठत एवेति ॥ १८ ॥ अज्ञान- नाशकं ज्ञानमात्रं न, क्रियाऽपि । - अज्ञान - नाशकत्वेन, ननु ज्ञानं विशिष्यते ? | न हि रज्जाव - हि - भ्रान्तिर्गमनेन निवर्त्तते ॥ १९ ॥ १११ अज्ञाननाशकत्वापेक्षातः क्रियातो ज्ञानं ननु विशिष्यते अतिशेते विशेषतावद्भवति ?' हि ' किल यतो रज्जुगताऽहिभ्रान्ती - रज्जुत्ववति सर्पविषयभ्रमः- रज्जावयं सर्प इति बुद्धिरूपभ्रान्ति : 'तदभाववति तत्प्रकारकं ज्ञानं भ्रमः' अहित्वाद्यभाववति अहित्वादिप्रकारकं ज्ञानं रज्जौ भ्रमरूपाऽप्रमा सा रज्जुगताहि भ्रान्तिः ननु - निश्चये च तर्के, क्रियातोऽज्ञाननाशकत्वेन ज्ञानं विशिष्यतेऽतिशेते? हीति किलोदाहरणेऽथ रज्जावहि भ्रान्ति र्सर्पस्य हि गमन क्रियाद्वारा हि निवर्त्तते-निवृत्ता भवति अपि तु सम्यग्ज्ञानेन निवर्त्तते न, ॥१९॥ पूर्वोक्तवस्तुस्वीकारेऽपि ज्ञानिनोऽपि क्रियोपयुज्यतेसत्यं क्रियाऽऽगमप्रोक्ता, ज्ञानिनोऽप्युपयुज्यते । . सञ्चितादृष्टनाशार्थं, नासूरोऽपि यदभ्यधात् ॥ २० ॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy