SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् क्षायोपशमिकभावे या तपः संयमानुकूला क्रियते, तया- क्रियया, पूर्वप्राप्तभावात्पतितस्य पुनस्तद्भावपूर्वप्राप्तभावस्य प्रकृष्टा वृद्धि जयते उत्पद्यते, तत्तत्क्रिया, शुभभावरक्षिका, गुप्ति- समाऽस्ति शुभभावरुपकण्टक वाटकेऽल्पेऽपि च्छिद्रे पतितेऽशुभभावरुपाः पशवः प्रविश्य, उत्थितं शुभभावरूपं पाकं भक्षयन्ति स्म, गुप्तिं वाटं विना पाकरक्षाऽसम्भविनी रहस्यमिदं कृषीवलोऽपि जानाति, ततः किं बुद्धिमान् साधको न जानीयाद्! महाव्रतादि- ज्ञानदर्शनचारित्रादिभावान् संरक्षितुमनन्तज्ञानिना परमात्मजपतपः-संयमाद्या अनेकविधाः क्रिया दर्शिता एव क्रियात्यागं कृत्वा -पुष्टालम्बनं मुक्त्वा क्रियां शुभभावरत्नोत्पत्ति-रूपां (शुभभावयोगं ) तथोत्पन्नशुभभावसंरक्षणरूपक्षेमसत्कां मुक्त्वा ग्रथिलवत् क्रियमाणां वार्त्तामपि मा शृण्वन्तु भव्याः यथाऽशुभक्रिया - भिरशुभभावा जायन्ते तथा शुभक्रियाभिः शुभभावाः कथं न भवेयुः ? भवेयुरेवेत्ति ॥ १७ ॥ ११० गुणानां वृद्ध्यर्थं स्थिरतासिद्ध्यर्थं वा क्रिया कार्यागुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ॥ १८ ॥ 'ततः - पूर्वकथितविवेचनतः, गुणवृद्धिरूपफलजनिकाऽथवाऽस्खलन- गुणभावस्थिरतारूपफलजनिका क्रियाऽवश्यं कर्त्तव्या यतो जिनानामेकमप्रतिपाति संयमस्थानमवतिष्ठते नाऽन्येषां छद्मस्थानां । 'क्रिया गुणवृद्धयेऽस्खलनाय वा कर्त्तव्या' तथाहि = यथा सामयिकनाम्नी क्रिया समतारागद्वेषाभावरूपसमतागुणस्य वृद्धये भवितव्या, यथा यथा सामायिकक्रिया क्रियमाणा सती तथा तथाऽऽत्मनि समतागुणो वर्धनीय एव सुखदुःखादिप्रसंगे, उन्मादशोकादिवृत्तिर्मन्दा भवेत्, अर्थात् सामायिकक्रिया, समतागुणरत्नवृद्धिरक्षणादिफलजनिकैवेति एवं प्रतिक्रमणक्रिया, पापघृणापापनिंदा - पापत्यागरूपगुणफलवृद्धिजनिका प्रतिक्रमणक्रियाऽस्ति तपश्चर्या
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy