Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 127
________________ १०२ अध्यात्मोपनिषत् "श्वास्थि शुष्कं मुखे लात्वा, क्षिप्त्वा पादद्वयान्तरे। निजां लालां लिहन् मूढो, मन्यते रसनिर्भरम् ॥ इति" दुष्टविपरीताऽज्ञानमूलकप्रवृत्तिप्रवणानां शुनां 'तत्त्वद्दशां'स्वशास्त्रमनोऽभीष्टशास्त्रावगाहनशीलतस्तत्त्वदर्शनमात्रशालिनां। ___ 'दीपकपण्डिता:सर्वे वार्तामुच्चा लपन्त्यथ, दीपयन्ति परान् सर्वान् गच्छन्ति तमसि स्वयम्'। इति कथनमात्रकारिणां कर्त्तव्यविमुखानां पण्डितानां च मध्ये, भौतिकविषयवासनालम्पटानां विषयपदार्थरूपाशुचिभक्षणे शुनां च साक्षाद्विष्ठारूपाशुचिभक्षणे को भेदः? अर्थान्नास्ति कश्चिद् भेदः, प्रत्युत बुद्धतत्त्वानां शिखरारूढानां पतनमिव बलवदनिष्टानुबन्धिनरकानुपातानन्तरं महावेदना संभवति, शुनां तु अशुचिभक्षणानन्तरं कदाचिद् बुभुक्षाशान्ति भवेत् शरीरमशुचिखरण्टितं भवत्येतावन्मात्राशुभमिति ॥ ५॥ अज्ञानपूर्विका (अज्ञानहेतुना) वृत्ति नै दुष्टा?अबुद्धिपूर्विका वृत्ति-र्न दुष्टा तत्र यद्यपि। तथापि योगजादृष्टमहिम्ना सा न सम्भवेत्॥६॥ 'तत्र यद्यपि'श्वान-तत्त्वज्ञानिमध्ये 'अबुद्धिपूर्विका वृत्तिः' अज्ञानहेतुना, द्वयोरेवाज्ञानं-श्वानस्य भवकृतमज्ञानं तत्त्वदृशि-महामोहकृतमज्ञानरूपमन्धत्वं वर्त्तते तत्र यद्यपि दुष्टा वृत्तिरज्ञानपूर्वकत्वात् न गण्यते तथापि 'योगजादृष्टमहिम्ना' भक्तिज्ञानकर्मादि-योगाभ्यासजनितादृष्ट-कर्मणो माहात्म्येन सा दुष्टा वृत्ति न सम्भवेत्-तादृशादृष्टविशेष-माहात्म्यस्य तत्प्रतिबन्धकत्वेन तादृशदुष्टवृत्तेरसम्भव इति ॥ ६॥ निवृत्ति-सापेक्षप्रवृत्तिमयाचारेणाथवा सामायिकवतो मुनेश्चित्तं वीतराग प्रायं भवति

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178