________________
१०२
अध्यात्मोपनिषत् "श्वास्थि शुष्कं मुखे लात्वा, क्षिप्त्वा पादद्वयान्तरे। निजां लालां लिहन् मूढो, मन्यते रसनिर्भरम् ॥ इति"
दुष्टविपरीताऽज्ञानमूलकप्रवृत्तिप्रवणानां शुनां 'तत्त्वद्दशां'स्वशास्त्रमनोऽभीष्टशास्त्रावगाहनशीलतस्तत्त्वदर्शनमात्रशालिनां। ___ 'दीपकपण्डिता:सर्वे वार्तामुच्चा लपन्त्यथ, दीपयन्ति परान् सर्वान् गच्छन्ति तमसि स्वयम्'।
इति कथनमात्रकारिणां कर्त्तव्यविमुखानां पण्डितानां च मध्ये, भौतिकविषयवासनालम्पटानां विषयपदार्थरूपाशुचिभक्षणे शुनां च साक्षाद्विष्ठारूपाशुचिभक्षणे को भेदः? अर्थान्नास्ति कश्चिद् भेदः, प्रत्युत बुद्धतत्त्वानां शिखरारूढानां पतनमिव बलवदनिष्टानुबन्धिनरकानुपातानन्तरं महावेदना संभवति, शुनां तु अशुचिभक्षणानन्तरं कदाचिद् बुभुक्षाशान्ति भवेत् शरीरमशुचिखरण्टितं भवत्येतावन्मात्राशुभमिति ॥ ५॥
अज्ञानपूर्विका (अज्ञानहेतुना) वृत्ति नै दुष्टा?अबुद्धिपूर्विका वृत्ति-र्न दुष्टा तत्र यद्यपि। तथापि योगजादृष्टमहिम्ना सा न सम्भवेत्॥६॥
'तत्र यद्यपि'श्वान-तत्त्वज्ञानिमध्ये 'अबुद्धिपूर्विका वृत्तिः' अज्ञानहेतुना, द्वयोरेवाज्ञानं-श्वानस्य भवकृतमज्ञानं तत्त्वदृशि-महामोहकृतमज्ञानरूपमन्धत्वं वर्त्तते तत्र यद्यपि दुष्टा वृत्तिरज्ञानपूर्वकत्वात् न गण्यते तथापि 'योगजादृष्टमहिम्ना' भक्तिज्ञानकर्मादि-योगाभ्यासजनितादृष्ट-कर्मणो माहात्म्येन सा दुष्टा वृत्ति न सम्भवेत्-तादृशादृष्टविशेष-माहात्म्यस्य तत्प्रतिबन्धकत्वेन तादृशदुष्टवृत्तेरसम्भव इति ॥ ६॥
निवृत्ति-सापेक्षप्रवृत्तिमयाचारेणाथवा सामायिकवतो मुनेश्चित्तं वीतराग प्रायं भवति