________________
तृतीय क्रियायोगाशुद्धिनामक ऽधिकार
१०१
भावरूपं च लक्षणं साध्यरूपं नित्यस्वरूपं केवलज्ञानादिकं अर्थात् 'स्थितप्रज्ञभावलक्षणे सैव साधकयोग्यता- साधकनिष्ठभव्यता, सिद्धस्य नित्यस्वभावो भवति शक्तिफलवत् तत्र न न्यूनाधिक्यभाव - तारतम्यभावो भाव-साधनलक्षणमध्ये चार्थाद् भावसाधनाद् भावलक्षणे न न्यूनत्वं नाधिकत्वमेवं भावलक्षणाद् भावसाधने न न्यूनत्वं नाधिकत्वमस्ति साधनलक्षणव्यापियोग्यताशक्तिमहिमा सर्वत्र समानो द्दश्यत इति परैरपिदर्शनान्तरीयैरपि योगदृष्ट्याऽथवा योगदृष्टिग्रन्थे प्रोक्ते स्त इति ॥ ३ ॥
-
ज्ञानवतो निरपेक्षयथेच्छाचरणे को दोष: ?नाऽज्ञानिनो विशेष्येत, यथेच्छाऽऽचरणे पुनः । ज्ञानी स्वलक्षणाभावात्, तथा चोक्तं परैरपि ॥ ४ ॥
पुनः किं च ज्ञानिनो यथेच्छाचरणस्वीकारे कामचारप्रवृत्तिस्वीकारे, 'अज्ञानिनो न विशेष्येत' अज्ञानवतः पुरुषाज्ज्ञानी - ज्ञानवान्, न विशिष्टो भवेत्, अज्ञानी च ज्ञानी समानकक्षावन्तौ भवेतां कथमिति चेत् 'ज्ञानी स्वलक्षणाभावाद्' आत्मगतज्ञानलक्षण- फलरूपचारित्राभावात् स्वेच्छाचरण-विषये, अज्ञानितो- ज्ञानी नातिशेते, अज्ञानितुल्यो ज्ञानी भवति सूर्यस्योदये यथाऽन्धकारो न तिष्ठति, ज्ञानसूर्योदये दुराचरणरूपान्धकारः कथं तिष्ठेदिति ॥ ४॥
तथा च तीर्थान्तरीयैरुक्तं च स्वशास्त्रे
बुद्धाद्वैत- सतत्त्वस्य, यथेच्छा - चरणं यदि । शुनां तत्त्वद्दशां चैव, को भेदोऽशुचिभक्षणे ॥ ५ ॥
'बुद्धाद्वैत - सतत्त्वस्य'-बुद्धं-ज्ञातं ब्रह्मरूपाद्वैतसतत्त्वं=परमात्मरूपैकस्वरूपलक्षणं, येन सः, तस्य बुद्धाद्वैत - सतत्त्वस्य पुरुषस्य 'यदि यथेच्छाचरणं' यदि गुरुशास्त्रादिनिरपेक्ष- निरङ्कुशा - ऽविहिताचरणं भवेत्तदा 'शुनां तत्त्वद्दशां चैव को भेदोऽशुचिभक्षणे' = सारमेयानां - अस्थिभुजां ।