SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०० अध्यात्मोपनिषत् तथाहि-यानं यात्रा-संयमयोगेषु प्रवृत्तिः' यापनीयं मोक्षाध्वनि गच्छतां प्रयोजकः इन्द्रियादिवश्यतारूपो धर्मः'सोमिलप्रश्न:= यात्रा ते भदन्त! यापनीयमव्याबाधं ? सोमिल! यात्राऽपि मे, यापनीयमपि मे अव्याबाधमपि मे । प्रश्नः किंते भदन्त ! यात्रा ? सोमिल ! या मे! तपोनियमसंयमस्वाध्यायध्यानाऽऽ-वश्यकादिकेषु योगेषु यतना (प्रवृत्तिः) सा यात्रा। इह तपोऽनशनादिनियमास्तद्विषया अभिग्रहविशेषाः, यथा एतावत्तपः स्वाध्यायवैयावृत्त्यादि, मयाऽवश्यं रात्रिंदिवादौ विधेयमित्यादिरूपाः, संयमः-प्रत्युत्क्षेपणादिः, स्वाध्यायः धर्मकथादिः, ध्यानं धर्मादि, आवश्यकं षड्विधं एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमिति. १-प्रतिलेखनादिः। (भग.सू.श.-१८, उ-१०) ॥ २॥ तदेव दर्शनान्तरीयसाक्षिद्वारा द्रढयतिअतश्चैव स्थितप्रज्ञ-भावसाधन-लक्षणे । अन्यूनाभ्यधिके प्रोक्ते, योगदृष्ट्या परैरपि॥ ३ ॥ अतश्चैव-भगवता महावीरेण भगवत्यां सोमिलप्रश्नोत्तरे ज्ञानाचारादिरूपसाधनं केवलज्ञानादिरूपफलसद्भावो लक्षणत्वेनास्तीत्यस्मात्कारणादेव । "स्थितप्रज्ञस्य'="प्रजहति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते॥ शान्तो दान्तो भवेदीद्दगात्मारामतया स्थितः। सिद्धस्य हि स्वभावो यःसैव साधकयोग्यता ॥" इति.भग.गी. एताद्दशस्वरूपसम्पन्नस्य स्थितप्रज्ञस्य यद्भावरूपं 'न तु द्रव्यरूपं 'नित्यं साध्यं साधयत्ये' वेति स्वरूपं साधनासाधनं-ध्यानादि-साधनं,
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy