________________
। तृतीय क्रियायोगशुद्धिनामकऽधिकारः ) साधकसिद्धयोर्मध्ये साधनलक्षणयो भैदाभावः कथं ?यान्येव साधनान्यादौ, गृह्णीयाज्ज्ञानसाधकः । सिद्धयोगस्य तान्येव, लक्षणानि स्वभावतः ॥१॥
आदौ-पूर्वं यान्येव साधनानि-यान्युपादानभूतसाधनानि एव सत्तपोनियमादीनि, ज्ञानसाधकः-ज्ञानयोगी, गृह्णीयाद्-ग्रहणं कुर्यात्, तान्येव साधनानि स्वभावत एव लक्षणानि-स्वरूपाणि भवन्ति। सिद्धयोगस्य-साधकावस्थायां साधनानि पूर्णतया सातत्येन-साकल्येन सम्यक् साधयित्वा साध्यलक्षणपरिणामरूपाणि, यथा ज्ञानाचारसाधनाकेवलज्ञानरूपलक्षणं, तण्डुलावस्थातः परिपाकानन्तरं भोज्योदनाव स्थावत्, एवं साधकः साधनान्येव सिद्धावस्थायां लक्षणत्वेन परिणमयतिनिर्वर्त्तयतीति, अथवा स्वयमेव साधकसाधनाशक्तिमहिम्ना साधनं स्वभावतो लक्षणं-स्वरूपं भवतीति ॥ १ ॥
एतदर्थे सोमिलप्रश्नस्य व्याख्यानम् - अत एव जगौ यात्रां, सत्तपो-नियमादिषु । यतनां सोमिल-प्रश्ने, भगवान् स्वस्य निश्चिताम् ॥२॥ 'अतः'साधक-सिद्धभेदेन साधनान्येव लक्षणानि भवन्त्येतस्मात् कारणात् सोमिलब्राह्मण प्रश्नोत्तरे भगवान् महावीरस्वामी भगवत्यां स्वस्यात्मनः' सत्तपो-नियमादिषु निश्चितां यतनां-यात्रां जगौ-कथितवान्