SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तृतीय क्रियायोगाशुद्धिनामकऽधिकार निवृत्तमशुभाचाराच्छुभाचार --- प्रवृत्तिमत् । स्याद्वा चित्तमुदासीनं, सामायिकवतो मुनेः ॥ ७ ॥ १०३ 'निवृत्तमशुभाचारात्'=अशुभो - दुर्गतिकारणत्वेन पाप आचारः, तस्मान्निवृत्तं-निवृत्तिमत्-विरतिमत्, चित्तं, 'शुभाचारप्रवृत्तिमत्' सद्गतिशिवगतिहेतुत्वेन शुभः प्रशस्तो विहित आचारः, शुभाचारे प्रवृत्तिमत्क्रियाकारकं चित्तं, एकप्रकारेण गुप्तिमच्चित्तमुदासीनं वीतरागप्रायं भवत्यथवा द्वितीयप्रकारेण 'सामायिकवतो मुनेः' समतावच्छिन्नस्य सर्वथा मुनित्वावच्छिन्नस्यात्माराममनसः साधोः सर्वथा मनोगुप्तिमतश्चित्तमुदासीनं वीतरागप्रायं भवति, ज्ञानयोगिनः प्रकारद्वयासदाचारनिवृत्ति - सदाचारप्रवृत्ति - विशिष्टमुनित्वावच्छिन्नसमतावच्छिन्नरूपमनोगुप्त्यादिद्वारा वीतरागप्रायश्चित्त सम्प्राप्तिर्भवतीति ॥ ७ ॥ विधिनिषेधप्रकारा अज्ञाननियन्त्रिता न । विधयश्च निषेधाश्च न त्वज्ञाननियन्त्रिताः । बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥ ८ ॥ 'विधय: '-विधिरूपोपदेशाः 'निषेधाश्च' च निषेधरूपोपदेशा: 'नत्वज्ञाननियन्त्रिताः' अज्ञानवतः- रागादिमोहवतोऽपेक्ष्य न नियन्त्रिताः,विहिताः,प्रणीताश्च ‘आगमे' आचारांगसूत्रे लोकविजयाध्ययने तृतीयोद्देश मध्ये, अयं चोद्देशः-उपदेशः, बालस्याऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्तमानस्य दीयते (यस्त्वगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते) इत्यभिप्रायं मनसिकृत्य 'बालस्यैवागमे प्रोक्त उद्देश : ' 'यत् पश्यकस्य नोद्देश : 'पश्यकस्य स्वत एव विदितवेद्यस्योद्देश :उपदेशो न प्रोक्तः । उद्दिश्यते इत्युद्देशः उपदेश :- सदसत्कर्त्तव्यादेशः सः, पश्यतीति पश्यः, स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यक:- सर्वज्ञस्तदुपदेशवर्ती वा
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy