SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ अध्यात्मोपनिषत् तस्य उद्दिश्यते इत्युद्देशो-नारकादिव्यपदेश:-उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः। कः पुनर्यथोपदेशकारी न भवतीत्याह 'बाले' इत्यादि, बालो नाम रागादिमोहित:स पुनः कषायैः कर्मभिःपरीषहोपसर्ग वा निहन्यते इति निहः, स्निह्यत इति स्निहः स्नेहवान् रागीत्यर्थः, कामसमनोज्ञोऽनुपशमितदुःखः-दुःखी दुःखानामावत-मनुपरिवर्त्तत इति ॥ ८॥ 'उद्देसो' पासगस्सनत्थि, बाले पुण निहे कामसमणुने असमिय दुक्खे दुक्खी दुक्खाणमेव आवट्ट अणुपरियट्टइ (सू-८२) तिबेमि' आ लोक अउ०-३) पश्यकविशेषस्य शास्त्रं नियामकं न युक्तम्न च सामर्थ्ययोगस्य, युक्तं शास्त्रं नियामकम्। . कल्पाऽतीतस्य मर्यादा-प्यस्ति न ज्ञानिनः क्वचित्॥९॥ 'सामर्थ्ययोगस्येति'-सामर्थ्ययोगो द्विधा, धर्मसंन्यास-योगसंन्यासभेदेन, एष क्षपकश्रेण्यां भवति मोक्षस्याऽव्यवहितकारणं धर्मसंन्यासयोगः, क्षपकश्रेण्यां जीवो द्वितीयापूर्वकरणं करोति, तदा तात्त्विकधर्म संन्यासनामकः सामर्थ्य-योगो भवति, अत्र क्षायोपशमिक-क्षमादयो धर्मा निवृत्ता भवन्ति, अतात्त्विकः 'धर्मसंन्यासः' प्रवज्याकालेऽपि भवति, यतोऽज्ञानासंयमकषायवेदमिथ्यात्वादय औदयिकभावास्तेषां संन्यासे त्यागी भवति, ('योगसंन्यासः' योगस्यार्थात् कायोत्सर्गादि-कायादिकार्याणां संन्यासः सयोगिकेवलिभिर्भगवद्भिः आयोजितकरणं कृत्वानन्तरं क्रियते इति) विशिष्टसामर्थ्ययोगशालिपश्यकस्य शास्त्रं नियामकं न युक्तं यतो ज्ञानिनः कल्पातीतस्य क्वचित्-कुत्रचिन्मर्यादाऽपि नास्ति, सामर्थ्ययोगी कल्पातीतो ज्ञानी समुच्यते सामर्थ्ययोगिनां-कल्पातीतानां ज्ञानिनां पश्यकानां कथं मर्यादा ? कथं मर्यादानियामकं शास्त्रं ? इत्यर्थः॥ ९॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy