________________
१०५
तृतीय क्रियायोगाशुद्धिनामकऽधिकार .. क्रियाया अकिञ्चित्करत्वेन ज्ञानयोगरूपराजयोगस्य साम्राज्यं भविष्यतीष्टत्वेनेति ? प्रश्न:
भावस्य सिद्धयसिद्धिभ्यां, यच्चाकिञ्चित्करी क्रिया। ज्ञानमेव क्रियामुक्तं, राजयोगस्तदिष्यताम् ?॥१०॥
'भावस्य' भावस्य सिद्धिश्चेत्तदा क्रियाऽकिंचित्करी-निष्प्रयोजना, क्रियया कृतं, भावस्याऽसिद्धिरप्राप्तिश्चेत्तदा क्रियाऽकिञ्चित्करी-निष्फलाक्रियया पर्याप्तं, 'ज्ञानमेव क्रियामुक्तं' क्रियया रहितं ज्ञानमेव राजयोगःश्रेष्ठयोगः-योगराजत्वेन तत्-तस्मादिष्टत्वेन स्वीक्रियतामिति प्रश्ने प्रत्युत्तरीक्रियते ॥ १०॥
मैवं नाऽकेवली पश्यो, नापूर्वकरणं विना। धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया॥११॥
पूर्वोक्तप्रश्ने प्रत्युत्तरं कथयतीत्थं तथाहि-भो भ्रातः। एवं-यथा त्वं कथयसि तथा नास्ति, कः पश्य इति चेत् केवली पश्यो नेति नार्थात्केवली प्रथम:पश्यः, द्वितीयापूर्वकरणं विना धर्मसंन्यासयोगी पश्यो नार्थाद् द्वितीयापूर्वकरणं कृत्वा जीवः क्षपकश्रेण्यां क्षायोपशमिकधर्मसंन्यासयोगी तात्त्विकसामर्थ्ययोगसंपन्नो द्वितीय:पश्यको भवति, वस्तुतस्तु सर्वज्ञधर्मसंन्यास-योगरूपसामर्थ्ययोगं मुक्त्वाऽन्योऽपश्यको भवति, ततः कथ्यते, 'अन्यस्य नियता क्रिया' सर्वज्ञधर्मसंन्यासयोगरूप-तात्त्विकसामर्थ्य-योगि-भिन्नस्याऽन्यस्य सर्वस्याऽपश्यकस्य क्रिया क्रियायोगो नियतः-नित्यकर्त्तव्यतया विहित एव तथा चान्यच्च शृणु तावत् ॥ ११ ॥
स्थैर्याधानाय सिद्धस्या-सिद्धस्याऽऽनयनाय च। भावस्यैव क्रिया शान्त-चित्तानामुपयुज्यते॥ १२॥ सिद्धो भावोऽस्थिरो माभूत्-स्थिरता शाश्वती भवत्वित्युद्दिश्य कथ्यते,