________________
१०६
अध्यात्मोपनिषत्
'स्थैर्याधानाय सिद्धस्य' सिद्धस्य भावस्यात्यन्तस्थिरता-स्थापनाय तथा 'असिद्धस्याऽऽनयनाय च'-असिद्धस्याप्राप्तस्य भावस्याऽऽनयनाय सम्पादनाय क्रिया-शास्त्रविहितक्रिया, 'शान्तचित्तानामुपयुज्यते' अशान्तिरहित-शान्तिसहितमानसानां महात्मानां सदाकालमुपयुज्यत एवेति ॥१२॥
क्रियां विना ज्ञानं सर्व, न सार्थकं स्वेष्टस्थानदम्क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम्। गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम्॥ १३॥
हन्तेति निश्चये क्रियाया अत्यन्ताभावसहितं सर्वं ज्ञानं निष्फलंकार्यासमर्थं भवति, मार्गविषयकज्ञान रूपानुभववानपि न वाञ्छितं नगरंकिमपि स्थानं गतिनामिकां क्रियां विना नाप्नोति-गच्छति पुरुषार्थं विना ज्ञानमात्रेण चतुर्थ:पुरुषार्थः कथं लभ्यते ? यतो ज्ञानक्रियाभ्यां मोक्षः, भक्ष्यभोज्यमिष्टपदार्थज्ञानमात्रेण बुभुक्षा न शाम्यति तत्करणोपाय-ज्ञानक्रियाद्वारा-तत्सम्पादनेन भोज्यादिद्वारा तृप्ति भवति नान्यथेति ॥ १३ ॥
यथाऽवसरं यथाऽधिकारं यथास्थानं ज्ञानपूर्णानामपि क्रियाया अपेक्षा अपूर्णज्ञानानां तु का वार्ता ?
स्वानुकूलां क्रियां काले, ज्ञानापूर्णोऽप्यपेक्षते। प्रदीपः स्वप्रकाशोऽपि-तैल-पूर्त्यादिकं यथा॥ १४॥
'स्वानुकलां क्रियां काले' सिद्धिप्राप्ति न स्यात्तावत्साधकदशायां क्रियाया आवश्यकत्वं युज्यते, यद्यपि साधनाया भिन्नभिन्नदशासु क्रियाभेदो वर्त्तते परन्तु केवलिनां यथावसरं योगनिरोध-समुद्घातादिक्रियाऽऽवश्यकत्वं स्व-स्वभावपुष्टये योग्यकाले योग्यक्रिया शरणीयैव, सर्वासुसम्यक्त्वगुणस्थानकादारभ्य सर्वगुणस्थानक-भूमिकासु शास्त्रविहितक्रिया यथा “तत्राष्टमे गुणस्थाने शुक्लं सद्ध्यानमादिमम् ध्यातुं प्रक्रमते