________________
तृतीय क्रियायोगाशुद्धिनामकऽधिकार
१०७ साधुराद्यसंहननान्वितः।" अष्टमे गुणस्थाने प्रथमवज्रर्षभनाराचसंहननी साधुः शुक्लध्यानात्मकक्रियामारभतेऽत्रापि ध्यानात्मकक्रियाऽऽवश्यक्येव। क्षीणघातिकर्मा, केवल्यपि सर्वसंवरक्रियां पूर्णानन्दप्राप्तिप्रसंगे योगनिरोधक्रियां, तत् पूर्वं च समुद्घातक्रियां करोति तथा च पापक्रियामात्रनिवारणाय प्रतिपक्षरूपधर्मक्रिया कर्त्तव्येति तर्कसिद्धा, क्रियापेक्षा, यथेत्युदाहरणेस्वयं प्रदीप:-दीपकः, स्वजन्यप्रकाशवानपि निमित्तहेतुभूत-तैलपूरणादिक्रियामपेक्षते, 'इलेक्ट्रिकलाईट' स्वयं स्वप्रकाशवती सती 'स्वीच' नामन-क्रियां तथा 'पावरहाउस' जात 'करंट' विद्युत्प्रवाहागमनादिक्रियामपेक्षते तथाऽत्रापि ज्ञानपूर्णोऽपि काले स्वानुकूलां क्रियामपेक्षतेऽन्यथा सिद्धिरसम्भविन्येव ॥ १४॥
बाह्य भावरूपा क्रियाऽस्तीति वादं प्रतिवादःबाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः। वदने कवलक्षेपं विना ते तृप्तिकाडिक्षणः॥ १५॥ ___ (अक्रिया-क्रियाऽभावं कथयन्तीति शेषः पाठान्तरे)
केचिच्छुष्कज्ञानिनो वदन्ति च पोषध-प्रतिक्रमण-प्रभुदर्शनपूजनगुरुसेवाभक्तिप्रतिलेखनतपश्चर्यादिकाः सर्वा एता व्यवहारक्रिया बाह्यभावरूपाः, एताभ्य आत्मनः किञ्चित्कल्याणं कथं भवेत् ? कायजन्यत्वादिति मतं तदा हिंसाऽसत्यचोर्यदुराचार-परिग्रहादिजन्यक्रियाः कुर्वतामहिंसासत्याचौर्यसदाचारनिष्परिग्रहतायाः सिद्धिः कथं साध्या स्यात् ? किं रूपरमणीनां नटीनां दर्शनसत्कारादिमदान्धश्रीमतां सेवादि, सुन्दरभिन्नभिन्नवेषभूषां मनोमोदकमादकभोजनादिं च कुर्वतामात्मनः शुद्धबुद्ध-निरञ्जननिराकारमयी दशा भविष्यति ? भ्रात मा प्रमादं गमय भ्रान्तौ मा पत ! स्वस्थो भूत्वा निराग्रहः सन् महर्षीणामनुभवसिद्धवचनानां मर्म विचारय। बाह्य भावस्तु शुभाऽशुभभेदाद् द्विधा यत्रात्मा विस्मृत एकमात्रविषयानन्द