________________
१०८
अध्यात्मोपनिषत् प्राप्ति र्लक्षभूता सा क्रियाऽशुभबाह्यरूपाऽस्ति परन्तु यत्रात्मनो मधुरा स्मृति वर्तते, एकमात्रात्मानन्दानुभूति र्लक्ष्यभूता यत्र परमकारुणिकं परमात्मानं प्रति भक्तिपूजाबहुमानादिः, यत्र पापेभ्यो मुक्तये शुचितमो भावोऽस्ति, एतादृशी काऽपि क्रिया शुभबाह्यभावरूपाऽस्ति, अशुभपापक्रियाणामनादिकुत्सितव्यसनं शुभधर्मक्रियाणां शरणस्वीकारं विना कथं चलेत् ? तत्तदात्मगुणप्रकटनाय शुभपवित्रबाह्यक्रियामयानुष्ठानान्यनुष्ठेयान्येव, अनन्तज्ञानिपरमपुरुषतीर्थकरदेवेन मनोवच:कायसत्काः क्रिया आत्मशुद्धये प्रदर्शितास्ताः सादरं विधेयाः, यदि स्वात्मशुद्धिकृते सत्यभावना स्याद्, यथा मुखे कवलक्षेपं विना क्षुधाशान्तिः कथं भवेत् यदि तृप्तिसुखस्यानुभव इष्टस्तदा मुखे कवलक्षेपात्मकक्रियाऽवश्यं कर्त्तव्यैव तथा परमात्मसुखस्यानुभव इष्टस्तदा तदर्थमावश्यकक्रियाऽऽवश्यकी अर्थाद् ये नास्तिकाभा बाह्यभावं पुरस्कृत्य व्यवहारापेक्षया क्रियां निषेधन्ति ते, कवलक्षेपं मुखेऽकृत्वा तृप्तिकाङ्क्षिणो-मूर्खशिरोमणयः कथ्यन्ते, कदाचिदपि तृप्तेराकांक्षा कवलक्षेपं विना न पूर्यत एवेति ॥ १५ ॥
भावस्य योगक्षेमकरी सत्क्रिया कार्यैवगुणवद्-बहुमानादे - नित्यस्मृत्या च सत्क्रिया। जातं न पातयेद् भावमजातं जनयेदपि॥ १६॥
भावानां चञ्चलस्वरूपमेतद्विचारणीयं प्रतिसमयं प्रमादाभावपूर्वकं जाताः सुरक्षिता भावास्तिष्ठन्ति, प्रमादत उपेक्षिता अरक्षिता जाता अपि भावा गच्छन्ति। स्वस्या-मूल्यसुदुर्लभसम्पत्तिरूपसंजातशुभभावस्य संरक्षणाय, चक्रवर्त्यादि-बाह्यसम्पदोऽपि अनन्तगुणमहत्त्वं मनसि निर्घार्य, यत्किञ्चित्प्राणादिदानाय सदा कटिबद्धा भवन्तु भव्याः।