SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः ____ ९७ परमार्थविषयकभावनापावनानां परमस्थितिःकलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् । क्वचन किमपि शोच्यं नास्ति नैवास्ति मोच्यम्, न च किमपि विधेयं नैव गेयं न देयम् ॥ ६४ ॥ कलितः सम्प्राप्तः, विविधो-नानाजातीयो निश्चयतो बाह्यरूपव्यवहारस्य व्यापकीभूतानां कोलाहलानां कलकलध्वनीनां, ओघः- प्रवाह:समुदायो वा तस्य व्युपरम:- विशेषतो विरामो यस्मिन् सः, कलितविविधबाह्य व्यापकोलाहलौघव्युपरमः, स चासौ परमोऽर्थः- निश्चयरूपःपरमोऽर्थस्तस्मिन्नथवा मोक्षपरमार्थे, भावनापावनानां भावनाज्ञानरूपज्ञानयोगेन पवित्राणां मुनीनां, क्वचन-कुत्रचिद् देशे काले वा वस्तुनि न किमपि वस्तु शोच्यं शोचनीयमालोचनीयमस्ति, नैवाऽस्ति मोच्यं-मोचनीयं-मोक्तव्यमस्ति, न च किमपि विधेयं, नैव गेयं, न देयम् - किमपिकिञ्चिदपि कर्त्तव्यं नास्ति, नैव गेयं-स्तुत्यं, न देयं-दातव्यमस्तीति ॥६४ ॥ परमज्ञानयोगी तीर्थंकरो वा गणधरादिर्यति-पति भवतिइति सुपरिणतात्मख्याति-चातुर्यकेलि-र्भवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः। हर-हिमकरहारस्फार-मन्दार-गंगा रजतकलशशुभ्रा स्यात्तदीया यशः श्रीः ॥ ६५ ॥ 'इति'-निश्चयसिद्धपरमार्थे, आत्यन्तिकपरिणतात्मनि ज्ञानविषयकचतुरतामयकेलिः-क्रीडा यस्य सः- सुपरिणताऽऽत्मख्यातिचातुर्यकेलिः, यः 'चिद्भरोद्भासिवीर्यः'-ज्ञानोत्कर्षोद्भासकवीर्य-परमशक्तिशाली 'यतिपति' स्तीर्थकरो गणधरादि र्वा भवति, तदीया-तस्य तीर्थकरादेरियं
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy