Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
६१
जालं, शाम्बरीमायातुल्यं 'वेत्ति' सर्वमसत्यं क्षणविनश्वरं जानाति, स मुनिः 'तत्र' - पुद्गलप्रपञ्चचञ्चलचारुलीलायां 'नानुरज्यते' अनुरागरूपरंगसंगतो न भवतीति ॥ ६ ॥
का आध्यात्मिकी सुधा ? किं आध्यात्मिकं विषं ? - आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥ ७ ॥
'येन' मुनिना जगत्तत्वज्ञानिना, ज्ञानरतिः- आत्मज्ञाननिष्ठा रति:रमणता-क्रीडा-विशिष्टस्थायिरसः सा एव सुधा, सुधाभुग्भिरप्यगम्याऽऽध्यात्मिकामृतविशेषज्ञानरतिरूपा सुधा, 'सुमधुरा आस्वादिता = आत्यन्तिकचिदानन्दमाधुर्यधुर्या, निभृतं निपीता, 'तच्चेतो विषयेषु विषेष्विव न लगत्ये' विति तस्याध्यात्मिकज्ञानरतिरूपसुधापायिनो यतिनश्चेत:- अन्तःकरणं विषयेषु विषेष्विव न लगत्येव सदा मारकेषु शब्दादिविषयेषु विषसमानेषु न लगत्येव-न निमज्जति वल्गतीति । ७।
स्वभावचिन्तनद्वारोपनता विषयास्त्यागधर्मायैव
सतत्त्वचिन्तया यस्याभिसमन्वागता इमे ।
आत्मवान् ज्ञानवान् वेद-धर्मवान् ब्रह्मवांश्च सः ॥ ८ ॥ 'इमे' अभिसमन्वागता=पुण्ययोगतोऽभितः समन्तादुपनता इमे विषयाः 'सतत्त्वचिन्तया' भोगानन्तरं इच्छानन्तरं वा बलवदनिष्टनरकाद्यपायदुःखहेतुत्वेनार्थात् स्वरूपचिन्तनेन विषयीकृता अतस्तत्-त्यागाभिमुखः सन् 'स' स पुरुषो, हि, 'आत्मवान्'- निश्चयत आत्मस्वरूपवान् 'ज्ञानवान्'= वस्तुस्वरूपविषयकज्ञानवान् 'वेदवान्' आचारांगादिरूपवेदआगमादिमान् ज्ञानाऽपेक्षया, दुर्गत्यादिमहापायरक्षकस्वर्गापवर्गादिसद्गतिसमर्पकधर्मवान्, श्रद्धाज्ञानाचारापेक्षया, 'ब्रह्मवान्' ब्रह्मचर्यधर्मवान्, परमात्मतत्त्वविषयक
=

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178