Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 102
________________ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियो ऽधिकारः पदार्थान्वेषण-स्थानानि वा, तत्र गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञ्याहारकरूपाश्चतुर्दश मूलभूता मार्गणाः, तत्र ७७ नरगतिपञ्चेन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यातक्षायिकाऽनाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो, न शेषेषु, अत्र यथासम्भवं प्रत्युत्पन्नानन्तरपश्चात्कृतनयाऽपेक्षया मुक्तिः योगवेदकषायलेश्यामार्गणासु न मोक्षः । यावन्त्यो मूलभूताश्चतुर्दशमार्गणाः सन्ति तथापि तदन्यतरसंश्लेषो, नैवाऽतः परमात्मनः' =तयोर्गुणस्थानमार्गणयोरन्यतरेणाथवाऽन्यतरया सह नैव संश्लेषः - संयोगः, 'अतः परमात्मनो नवेति' (पाठे ) = अस्माद् भवस्थकेवलिअभवस्थसयोगिकेवलिसिद्धद्वयान्यतररूपपरमात्मनो भवति न वा भवति, अर्थादेकस्माद्भवस्थकेवलिपरमात्मनः, त्रयोदशगुणस्थानादिमार्गणासंयोगो भवति, अथवाऽभवस्थकेवलि-सिद्धपरमात्मनो न भवति यतः सिद्धा गुणस्थानातीता भवीयमार्गणारूपस्थानातीता अपि विवक्षया क्षायिकानाहारककेवलज्ञानकेवलदर्शनात्मकविचारणास्थानरूपमार्गणागणनागणिताः कथ्यन्ते इति ॥ २८ ॥ - आत्मगतकर्मोपाधिजन्यभावनिश्चयेन परमात्मरूपं न जानातिकर्मोपाधिकृतान् भावान् य आत्मन्यध्यवस्यति । तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः ॥ २९ ॥ कर्मनामकोपाधि-परसम्बन्धेन कृतान्- कर्मपरिणामरूपजन्मादिकभावान्, य आत्मनि- आत्मत्वावच्छिन्न आत्मनि, अध्यवस्यति - ( आरोपरूपेण) निश्चिनोति, अर्थात्, 'आत्मा, औपाधिक- जन्मादिभाववानेव' आत्मा चैतन्यादिस्वभाववान् नेति विपर्यस्तबुद्धिमान्, संसारी आत्मा, प्रच्छन्नभावेन केवलज्ञानादिमान्, प्रादुर्भावेण क्षायोपशमिकज्ञानादिरूपचैतन्यविशिष्टोऽस्तीति न मन्यते, 'तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः ' - आत्मनि, औपाधिकजन्मादिभावविषयकमतवता, तारतम्येनापि प्रादु

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178