________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियो ऽधिकारः
पदार्थान्वेषण-स्थानानि वा, तत्र गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञ्याहारकरूपाश्चतुर्दश मूलभूता मार्गणाः, तत्र
७७
नरगतिपञ्चेन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यातक्षायिकाऽनाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो, न शेषेषु, अत्र यथासम्भवं प्रत्युत्पन्नानन्तरपश्चात्कृतनयाऽपेक्षया मुक्तिः योगवेदकषायलेश्यामार्गणासु न मोक्षः ।
यावन्त्यो मूलभूताश्चतुर्दशमार्गणाः सन्ति तथापि तदन्यतरसंश्लेषो, नैवाऽतः परमात्मनः' =तयोर्गुणस्थानमार्गणयोरन्यतरेणाथवाऽन्यतरया सह नैव संश्लेषः - संयोगः, 'अतः परमात्मनो नवेति' (पाठे ) = अस्माद् भवस्थकेवलिअभवस्थसयोगिकेवलिसिद्धद्वयान्यतररूपपरमात्मनो भवति न वा भवति, अर्थादेकस्माद्भवस्थकेवलिपरमात्मनः, त्रयोदशगुणस्थानादिमार्गणासंयोगो भवति, अथवाऽभवस्थकेवलि-सिद्धपरमात्मनो न भवति यतः सिद्धा गुणस्थानातीता भवीयमार्गणारूपस्थानातीता अपि विवक्षया क्षायिकानाहारककेवलज्ञानकेवलदर्शनात्मकविचारणास्थानरूपमार्गणागणनागणिताः कथ्यन्ते इति ॥ २८ ॥
-
आत्मगतकर्मोपाधिजन्यभावनिश्चयेन परमात्मरूपं न जानातिकर्मोपाधिकृतान् भावान् य आत्मन्यध्यवस्यति । तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः ॥ २९ ॥ कर्मनामकोपाधि-परसम्बन्धेन कृतान्- कर्मपरिणामरूपजन्मादिकभावान्, य आत्मनि- आत्मत्वावच्छिन्न आत्मनि, अध्यवस्यति - ( आरोपरूपेण) निश्चिनोति, अर्थात्, 'आत्मा, औपाधिक- जन्मादिभाववानेव' आत्मा चैतन्यादिस्वभाववान् नेति विपर्यस्तबुद्धिमान्, संसारी आत्मा, प्रच्छन्नभावेन केवलज्ञानादिमान्, प्रादुर्भावेण क्षायोपशमिकज्ञानादिरूपचैतन्यविशिष्टोऽस्तीति न मन्यते, 'तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः ' - आत्मनि, औपाधिकजन्मादिभावविषयकमतवता, तारतम्येनापि प्रादु