________________
अध्यात्मोपनिषत्
र्भावतः क्षायोपशमिकज्ञानादिस्वभावमवगणयता तेन पुरुषेण, 'परमात्मनः ' परमत्वविशिष्टात्मन:प्रादुर्भावत: स्वाभाविकं - क्षायिकं परमं प्रकृष्ट-कोटिप्राप्तं चैतन्यं ज्ञानादिकं चिद्रूपरूपं न बुद्धं, यदि जन्मादिविकारिभावाः आत्मनो नो स्वभावा अपितु कर्मोंपाधिका इति मत्वा तदनन्तरं आत्मा, प्रच्छन्नभावेन केवलज्ञानादिमान् प्रादुर्भावतस्तारतम्येन क्षायोपशमिकज्ञानादिरूपचैतन्यविशिष्टोऽस्तीति मतवता पुरुषेण परमात्मनः स्वाभाविकं रूपं ज्ञातमेवेति य आत्मस्वरूपं वेत्ति स परमात्मस्वरूपं वेत्ति, य: परमात्मस्वरूपं वेत्ति स आत्मस्वरूपं वेत्तीति व्याप्तिरप्यवधार्या ॥२९॥
७८
अविवेकेन कर्मस्कन्धप्रभाव आत्मनि, उपचर्यतेयथा भृत्यैः कृतं युद्धं स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन कर्मस्कन्धोर्जितं तथा ॥ ३० ॥
:
यथा भृत्यैः भृतियोग्यै र्योधैः कृतं युद्धं योधकृतयुद्धपरिणामरूपजयपराजयात्मकं, अथो जनो वक्तिराजा विजयो जातः, राजा पराजयी जातः, युद्धं कुर्वन्ति योधास्तथापि स्वामिनि - राजन्येव कल्प्यते, युद्धकर्तारो योधाः जयपराजयफल-भोक्तारः स्वामिनः, केन युद्धं कृतं ? को विजयी वा पराजयी जात? इत्यादि प्रश्ने, युद्धं वा तज्जन्य-जयपराजयात्मकफलमपि राज्ञ्येवोपचर्यते तथा यद्यपि अविवेकेन, देहात्माऽभेदरूपेण कर्मपुद्गलस्कन्धरूप-पुण्यपापोपचयो जायते - उत्पद्यते तथापि शुद्धेअविकारिणि आत्मनि उपचर्यते व्यवहियते आरोप्यते यथाऽयं आत्मा पुण्यशाली, अथवा पापः पापभाग् वा वस्तुतः कर्मकृतभावानां कर्त्ता नास्त्यात्मा, आत्मातु स्वभावस्यैव कर्त्ता, परन्तु अविवेकजन्यं कर्मात्मनोरेकत्वमीदृशं जातं कर्मकृतभावानां कर्तृत्वं जातं, कर्मकृतभावानां कर्तृत्वमात्मन्यवभासते इयमेवाऽविवेकवती दशा, कर्मबन्धहेतुभूताऽतो भव - भ्रान्तिर्ज्ञेयेति ॥ ३०॥