________________
७९
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
अज्ञानी कर्मपरिणामं चिद्रूपे व्यवहरतिमुषितत्वं यथा पान्थगतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥
यथा मार्गं गच्छन् पान्थश्चोरैर्मुषितः संस्तथापि मार्गेणाहं मुषित इति लोकेन लोके गीयते तथाऽज्ञो-मूढो, विक्रियावन्तः पुद्गलाः सन्ति, तथाऽविकारि-चिद्रूप-आत्मनि व्यवहरति-कल्पयति, तस्करैर्मुषितो न मार्गेण, कर्मैव विकारि, आत्मा चिद्रूपोऽविकारी जन्मादि विभावपरिणामवान् नेति वास्तविकमस्ति ॥ ३१॥
कर्मण आगमनं कुतो भवति ? यतस्तत्र ज्ञानी न दोषभाग्स्वत एव समायान्ति, कर्माण्यारब्धशक्तितः । एकक्षेत्राऽवगाहेन, ज्ञानी तत्र न दोषभाग् ॥ ३२ ॥
यत्राकाशप्रदेशे कर्माऽणवः सन्ति तत्रात्माऽप्यस्ति, 'स्वत एव समायान्ति कर्माण्यारब्धशक्तितः' स्वतः-स्वयमेव, आरब्धशक्तित:देहादेरारम्भकादृष्टशक्तितः, तत्तच्छरीरभोगजनकं हि यत्कर्म तत् प्रारब्धं तच्छक्तितो वा अनादिकालीन-तत्तत्-पुद्गलादि-सम्बन्ध-योग्यतानामकसहजभावमलशक्तित: कर्माणि कर्मपुद्गलाणवः, स्वयमेव, आत्मसमीपे योगेन एकक्षेत्रावगाहनाऽपेक्षया समायान्ति-आगच्छन्ति स्पृशन्ति, 'तत्र ज्ञानी न दोषभाग्'-ज्ञानदशायाः समवधानात्, रागद्वेषाभावतः, कषायदशावशाऽभावतः, ज्ञानी, तत्र कर्मण आगमने-आनयने न दोषपात्रमतो ज्ञानिनि न कर्मलेपो भवतीति ॥ ३२ ॥
ज्ञानदशावशिनो वशिनो नो प्रवृत्तयो बाधायैदारुयन्त्रस्थपाञ्चाली-नृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै, ज्ञानिनो लोकवर्तिनः ॥ ३३ ॥