________________
ho
अध्यात्मोपनिषत् दारो:-काष्ठस्थ यद् यन्त्रं तत्रस्था या पाञ्चाली पुत्तलिका, तस्या यन्नृत्य-नाट्यं तत्तुल्याः-समानाः प्रवृत्तयः, काष्ठपुत्तलिका, नृत्यति, कूर्दति, पतति, तिष्ठतीत्यादिकासु क्रियासु यथा पुत्तलिकान्तः, हर्षशोकादिका भावा न स्पृशन्ति, सूत्रधारेण प्रेरिता पुत्तलिका करोति क्रियां तथा लोकवर्तिनः, सम्यग्दृष्टिज्ञानिनो योगिनोऽपि भोगादिप्रवृत्तिषु रागादिभावान् न कुर्वन्ति परन्तु निकाचितभोग्यावलिकर्मनोदिता वैराग्यानासक्तियोगतो वर्त्तन्ते, विषये प्रवृत्तानां सतामपि विरक्तानां भोगप्रवृत्तिर्न ज्ञानयोगवैराग्यबाधिका यतः स्वतो न प्रवर्तन्ते इति ॥ ३३ ॥
ज्ञानिनः क्रियापि विवेकत औचित्यं नातिवर्ततेप्रारब्धादृष्ट जनिता (त्) (सामयि) सामायिकविवेकतः। क्रियाऽपि ज्ञानिनो व्यक्ता-मौचिती नातिवर्त्तते ॥३४॥
'प्रारब्धादृष्ट-जनिता' निकाचितकर्मोदयजाता, ज्ञानिनो सम्यग्ज्ञानवतो भोगादिकक्रियाऽपि सामयिक-विवेकतः-समयकालज्ञानजन्योऽथवा जैनप्रवचनविषयकसम्यक्प्रबोधजन्यः समताजन्यो यो विवेकस्तस्मात् 'व्यक्तामौचिती नातिवर्त्तते' सामयिकविवेकव्यञ्जकतो 'व्यक्तां'-स्पष्टांप्रकाशितां 'औचिती' (उचितस्य भावःध्यण्डीप्) उचिततां-योग्यतां नाति-वर्त्तते-नातिक्रामति नोल्लंघयति अपितु ज्ञानिनिष्ठैतादृशी क्रियाऽपि पूर्वोक्तविवेकप्रकाशितमौचित्यं नोल्लंघतेऽपित्वौचित्यमाचरत्येव (नन्दिषेणमुनेदृष्टान्तोऽत्रोत्तारणीयः) ॥ ३४॥
को लिप्यते ? को न लिप्यते कर्म-कज्जलेन ?संसारे निवसन स्वार्थ-सज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते ॥३५॥