________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियो ऽधिकारः
८१
'कज्जलवेश्मनि संसारे निवसन् स्वार्थसज्जो निखिलो लोको लिप्यते'- भित्तिद्वारतोरणकपाटवेदिकापक्ष द्वारान्तर्द्वारबहिर्द्वारादिसर्वत:कज्जलमयगृहरूपे जन्मादिदशारूपसर्वोपाधिमये संसारे 'निवसन्’-नितरां वासं कुर्वन्, 'निखिलो लोकः' - समस्तजीवलोकः, ‘स्वार्थ-सज्जः सन् लिप्यते ' - स्वस्य ये इन्द्रियार्था: मनोहरशब्दरूपरसगन्धस्पर्शादिविषयरूपा अर्थाः तेषु अथवा संसारसुखतत्साधनरूपकामार्थरूपस्वार्थ-स्वेच्छा विषयभूतवस्तुसमुदायरूपार्थे सज्ज :- प्रगुणः - सङ्गाभिष्वङ्गवान्-सन्नद्धो भवति, स्वार्थसज्जतायां सत्यां समस्तलोकः कर्मनामकपुद्गलैर्लिप्तो भवति, अर्थात् स्वार्थसिद्धयै विवेकभ्रष्ट उचितानुचितं नहि विचारयन् पापक्रियानुचितक्रिया - विपरीतानिष्टानुबन्धिनीं क्रियां कुर्वन्, पौद्गलिकानिष्टाष्टकर्मभिर्बद्धो भवति परन्तु परमज्ञानप्रकाशसिद्धिसम्पन्नो ज्ञानरसायनसिद्धिसंयुक्तः कर्मकज्जलेनैव 'न लिप्यते ' = लिप्तो - बद्धो न भवतीति ॥३५॥
आत्मा, पुद्गलभावरूपजगतः कर्त्ताऽस्ति वा न वा? - नाहं पुद्गलभावानां कर्त्ता कारयिताऽपि च । नाऽनुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथं ? ॥३६॥
'नाहं' अहंप्रत्ययगम्यः प्रथमपुरुषत्वेन प्रसिद्ध आत्मा पुद्गलभावानां कर्मादिभिन्नभिन्नजातीयपौद्गलिकसृष्टेः सर्जनात्मकजन्मादिकसुखदुःखादिदृश्यमानाविर्भावपरिणाम - विचित्रदशादि व्यङ्ग्यविषयभावानां स्वातन्त्र्यरूपकर्तृत्वलक्षणरहितत्वेन नाहं कर्त्ता, 'नाहं कारयिताऽपि च ' न अहमात्मा, कुर्वन्तं प्रयुञ्जे इति कारयामीति कारयिता, अर्थात् पुद्गलभावान् कुर्वन्तमन्यं न प्रयुञ्जे प्रेरयामि - प्रयोजयामीति कारयिता - प्रेरक : प्रयोजको वेति नाहं पुद्गलभावानामनुमन्ताऽपि च = अहमात्मा, पुद्गलसुन्दरपरिणामभावान् कुर्वन्तमन्यं नाऽनुमन्ये- अनुमोदक :- प्रशंसक : - उत्तेजक : सहायको न भवामीत्यात्मकात्मविषयक-भेदकज्ञानवान्-पुद्गलगुणस्वरूपत आत्म