________________
अध्यात्मोपनिषत् गुणस्वरूपं भिन्नं इति सर्वथा भेदविषयकात्मज्ञानवान् कथं लिप्यते ? अपितु कदाचिदात्मज्ञानी श्रमणो न लिप्यते ॥ ३६॥
पुद्गलैः को लिप्यते को न लिप्यते इति भेददर्शनम्लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् । चित्रव्योमाऽञ्जनेनेव, ध्यायन्निति न लिप्यते ॥ ३७ ॥
'पुद्गलै:पुद्गलस्कन्धो लिप्यते' पुद्गलसमुदायः पुद्गलैः अन्यपुद्गलसमुदायैः बध्यते नाहमात्मा लिप्ये इति वास्तविकचिन्तन द्वारा पुद्गला मम गुणकारकाः, पुद्गलैरहमातृप्तो भवामीत्याकारकभ्रमात्मकाज्ञानतमः प्रबलं प्रणश्यति, किञ्चात्मना सह रागादिना पुद्गलसम्बन्धो न तादात्म्यात्मकः परन्तु क्षीरनीरवत् संयोगाख्यः सम्बन्धः (द्रव्ययो:संयोग इति न्यायेन) अत आत्मनो गुण-स्वभावधर्माःसर्वात्मना पुद्गलतो भिन्नाः पुद्गलस्य गुणधर्माः सर्वथाऽऽत्मद्रव्यतो भिन्नास्ततस्ताद्रूप्यं द्वयो न शक्यते, पुद्गलात्मभेदज्ञानपरिपाकेन, चित्र-विविधकृत्रिमरङ्गाकारभेदभिन्नं, 'व्योम'='आकाशं', 'अञ्जनेन'-'कज्जलेन, यथा न लिप्यते, तथा पुद्गलैः सहात्मनो लेपोऽसम्भवीति ध्यानं-एकाग्रतापूर्वकचित्तस्थज्ञानं कुर्वन् कोऽप्यात्मा न लिप्यते इति ॥ ३७॥
निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयोगिमीलिप्तता-ज्ञानसम्पात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥ ३८ ॥
विषमविषय-निष्करूणकषायादि-प्रमाद-प्रपातपारतन्त्र्यप्रयुक्तलिप्तताज्ञानरूपः कर्मजन्यभावगतमोहाधीन-दशात्मकज्ञानरूपः, अहं सर्वदा मोहकर्मादिना लिप्तोऽस्मी' त्याकारकज्ञानरूपो यः 'सम्पात:' सम्यक् पतनमध:पतनं, तस्य प्रतिघाताय-सर्वथाऽभिमुखताहननाय