________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः पुन:पुनरिणाय-निवारणाय 'केवलम्'-लिप्तताज्ञानसम्पातप्रतिघातायैव नान्यस्मै हेतवे इत्यर्थः, 'निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते' अनुपयोगतोऽकस्मात्प्रमादपातेऽतिचारदोषभङ्गाय।। __ आवश्यकादिप्रतिक्रमणप्रतिलेखनादिरूपा समुचिता, सर्वा क्रियोपयुज्यतेऽर्थानिर्लेपज्ञानमग्नस्यावश्यकादिक्रिया-द्वाराऽकस्मादुपस्थितलिप्तताज्ञानसम्पातप्रतिघात एव भवति, नान्यस्य, यो निर्लेपज्ञाने (अहमात्मा निर्लेपोऽस्मी ति=ज्ञाने) मग्नो नास्ति, तस्य आध्यात्मिकज्ञानशून्यस्य आवश्यकादिसर्वक्रिया, लिप्तताज्ञानसम्पातप्रतिघाताय नोपयुज्यते।
निर्लेपज्ञानमग्नस्यैवावश्यकादिसर्वक्रिया, लिप्तताज्ञानसम्पातप्रतिघातरूपकार्यं प्रति कारणं भवति, अत्र निर्लेपज्ञानमग्नताप्रधानकारणसहकृतावश्यकादिसर्वक्रियैव, लिप्तताज्ञानसम्पात-प्रतिघातकार्यं जनयत्येव नान्यथेति ॥ ३८॥
भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न बध्यतेतपः- श्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ॥ ३९ ॥ 'तप:श्रुतादिना मत्तः' अहं महातपस्वी बहुश्रुतोऽहं इत्यादिमदाष्टकेन, मत्तः-अभिमानगजग्राहग्रस्तः सन्, मानादिकषायभञ्जनसमर्थामावश्यकप्रतिलेखनादि-सर्वक्रियां कुर्वन्नपि कर्मादिभिर्लिप्यते एकतः क्रिया क्रियते, एकतोऽभिमानः क्रियते, ततः क्रियातोऽभिमानोऽतिशेते यतो लेपः कर्मणो जायते।
कथं निर्लेप आत्मा भवेदिति प्रश्ने कथ्यते आवश्यकादिक्रियाविरहितो न लिप्यते, क इति प्रश्ने, ‘भावनाज्ञानसम्पन्नः' इति प्रत्युत्तरयति, अर्थात् श्रुतज्ञानचिन्ताज्ञानानन्तरं जायमानं अप्रमत्तदशायां भावनाज्ञानमस्ति,