________________
८४
अध्यात्मोपनिषत् यत्र ध्यानेन ध्यातृध्येययोरभेदः क्रियते, त्रितयाभेदानन्दोऽनिर्वचनीयोऽस्ति, स्वल्पकालीनभावनाज्ञानजन्याभेदाद्भुतमहानन्दसमवधानकाले, बाह्यावश्यकादिक्रियाविरहेऽपि कर्मभि न लिप्यते महात्मेति (प्रथमाऽपिना मदाभावे भावनाज्ञान-सम्पत्तौ क्रियावानपि न लिप्यते द्वितीयाऽपिना मदसत्तायां भावनाज्ञानाभावे निष्क्रियोऽपि लिप्यत एव ॥ ३९ ॥
आत्मगतसमलत्वनिर्मलत्वरूपं द्वैतं यदा गतं तदा किं ?समलं निर्मलं चेद-मिति द्वैतं यदा गतम् । अद्वैतं निर्मलं ब्रह्म, तदैकमवशिष्यते॥ ४० ॥ 'यदा चेदं समलं निर्मलं द्वैतं गतम्' इदं ब्रह्मायमात्मा, 'समलं'=अनादितः प्रवाहतो यथायोग्यं ज्ञानावरणीयादि-कर्मतः खनिस्थसमलसुवर्णवद् समलं क्षायोपशमादिभावतः चैतन्यादिभावतो निर्मलं, अथवा संग्रहनयाद्यपेक्षया मध्यस्थाष्टरुचकप्रदेशत:सर्वदा निर्मलं-अपेक्षया समलत्वसहितनिर्मलमत एव समलं निर्मलं द्वैतं-द्वित्वभावः भेदबुद्धि (द्विधा इतं द्वीतं तस्य भावो द्वैत) र्यदा-भावनाज्ञानान्वितानुभवज्ञानेन यस्मिन् काले गतं-ब्रह्मतो निर्गतं समाधितोऽभेदरूपसमापत्तिद्वारा, 'तदाऽद्वैतं निर्मलं ब्रह्मैकमवशिष्यते' यत्कालावच्छेदेन समलनिर्मलभेदभावरूपं द्वैतं विनष्टं ब्रह्मणि, तदा-तत्कालावच्छेदेन पूर्णाप्रमत्तदशायामेकंएकत्वावच्छिन्नं, अद्वैतं द्वन्द्वातीतं द्वित्वाभावापूर्वमद्भुतं निर्मलंमलमात्राभाववत्, ब्रह्मैकमवशिष्टं भवति ॥ ४० ॥
अत्र ब्रह्म किंरूपमस्ति ? तत्र का मज्जन्ति ?महासामान्यरूपेऽस्मिन्, मजन्ति नयजा भिदाः । समुद्र इव कल्लोलाः, पवनोन्माथ-निर्मिताः ॥ ४१ ॥