________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
षड्द्रव्यैकात्म्यसंस्पर्श, सत्सामान्यं हि यद्यपि । परस्याऽनुपयोगित्वात् स्वविश्रान्तं तथापि तत् ॥ ४२ ॥ 'अस्मिन् महासामान्ये' संग्रहनयार्पणादेकस्मिन् सत्तालक्षणे महासामान्ये ब्रह्मणि (आत्मनि) विश्वमेकं सदविशेषात् सत्त्वरूपपरसामान्येन विश्वस्यैकत्वं गृह्यते इति 'मज्जन्ति नयजा भिदा: ' = विकल्परूपनयमात्रेण जाताः कृता वा भेदाः, एकत्वादिधर्मादिरूपा अभिप्राय - विकल्पविशेषा:सर्वे, मज्जन्ति तदेकीभवन्ति समाविशन्ति-विलीयन्ते, ब्रह्ममया भवन्ति, यथा ‘समुद्रे’-जलधौ, ‘पवनोन्माथनिर्मिताः' पवनेन-प्रभञ्जनेन, उन्माथमुन्मथनं कृत्वा, निर्मिता:- निर्माणविषयीकृता: कल्लोला:- उच्छलन्महोर्मयो मज्जन्ति - प्रविशन्ति तथाऽत्रापि विज्ञेयम्, षड्द्रव्यैकात्म्य-संस्पर्शि सत्सामान्यं हि यद्यपि'-धर्माधर्माकाशकालपुद्गलजीवात्मकानि षड्द्रव्याणि जैनशासने सन्ति, 'षड्द्रव्याणि एकत्वात्मकानि सत्सामान्य- सत्ताव्याप्यद्रव्यत्वाविशेषात् अर्थात् षड्द्रव्यैकात्म्यं - षड्द्रव्यैकत्वं सत्ताव्याप्यद्रव्यत्वसामान्यं संस्पृशत्येव सत्सामान्ये- सत्तायां यद्यपि षड्द्रव्यनिष्ठैकरूपत्वसंस्पर्शकारकत्वमस्ति तथापि परस्मिन् व्यवहारेऽनुपयोगित्वात्' 'विशेषा उपयोगिनो व्यवहारे सामान्यमनुपयोगी' तिवचनाद् गामानयेत्युक्ते गोत्वसामान्यं नानयति गोविशेषमेवाऽनयतीति विशेषाणामुपयोगित्वं वर्त्तते तथापि तत्-सत्सामान्यं सत्त्वं स्वविश्रान्तं स्वत एव स्वस्मिन् - ब्रह्मणि एव विश्रान्तं विश्रान्तिभाग् भवतीति ॥ ४१ ॥ ४२ ॥
ब्रह्मणो विशिष्टावस्था का ? -
नयेन सङ्ग्रहेणैव - मृजुसूत्रोपजीविना । सच्चिदानन्दरूपत्वं ब्रह्मणो व्यवतिष्ठते ॥ ४३ ॥
'एव' मिति - स्वविश्रान्तसत्तारूपमहासामान्येनाद्वैत तत्त्वे सिद्धे सति' 'ऋजुसूत्रोपजीविना'=ऋजुसूत्रमते, भावत्वं वर्त्तमानत्वसत्ताव्याप्यमिति
?
८५
-