SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८६ अध्यात्मोपनिषत् नियमो वर्त्ततेऽतः सत्ताव्याप्यभावत्वेन, सत्ता तु व्यापिका, भावत्वं तु व्याप्यं वर्त्तते ऋजुसूत्राभिमतसत्ताऽऽश्रितः संग्रहनयोऽस्ति, ततः कथ्यते 'ऋजुसूत्रोपजीविना संग्रहेण नयेनैवम्'- भूतानागतकालस्या- स्वीकारेण चोपयोगित्वापेक्षया, स्व- वर्त्तमानदेशकालयोरेव सत्ता - विश्रामः, वर्त्तमानकालीनं वस्तु, यच्च तस्यात्मीयं रूपं तदेतदुभयमेवाऽस्य नयस्य ऋजुसूत्रस्याभिमतमिति ऋजुसूत्राश्रितेन ऋजुसूत्रेण जीवनवता संग्रहेण नयेनैवं 'सच्चिदानन्दरूपत्वं ब्रह्मणो व्यवतिष्ठते' सत्त्वविशिष्टं चित्त्वं चित्त्वविशिष्टमानन्दत्वमत: सच्चिदानन्दरूपत्वं ब्रह्मण आत्मनो व्यवस्थितंविशेषेणाऽवस्थितं वर्त्तते इति ॥ ४३ ॥ सच्चिदानन्दरूपत्वरूपोऽर्थो ब्रह्मणोऽबाधित एवसत्त्वचित्त्वादि-धर्माणां भेदाभेद-विचारणे । न चाऽर्थोऽयं विशीर्येत निर्विकल्पप्रसिद्धितः ॥ ४४ ॥ ब्रह्मनिष्ठानां सत्त्वचित्त्वानंदत्वादिधर्माणां ब्रह्मतः, व्यवहारनिश्चयादिरूपसविकल्पनयैर्भेदस्य चाभेदस्य च विचारणे- स्वस्वदृष्टिकोणेन-माने सति सच्चिदानंदरूपत्वविशिष्टसत्तारूपार्थो ब्रह्मणो न विशीर्येतबाध्येतअबाधित एव कुत इति चेदुच्यते ' निर्विकल्पप्रसिद्धित:'-सत्ताया निर्विकल्पत्वेन प्रसिद्धिः सर्वदर्शनेषु वर्त्तते, अतो नयविकल्पजन्यभेदाभेदातीता सा सत्त्वचित्त्वानन्दत्वादिधर्माविशिष्टसच्चिदानन्दरूपत्वरूपसत्ता, स्वतंत्राऽजन्याऽजेया ब्रह्मणो वर्त्तत इति ॥ ४४ ॥ अतीन्द्रिये निर्विकल्पके सन्मात्रे विकल्पौघाऽसहिष्णुत्वं भूषणमेवयोगजाऽनुभवारूढे, सन्मात्रे निर्विकल्पके । विकल्पौघाऽसहिष्णुत्वं, भूषणं न तु दूषणम् ॥ ४५ ॥ ‘योगजाऽनुभवारूढे’=योगाभ्यास - जनितो ( युक्तस्य तावद्योगजधर्म
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy