SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः ८७ सहायेन मनसा आकाशपरमाण्वादिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव भवितुमर्हति) योऽनुभवः-प्रातिभज्ञानापरपर्यायरूपः, तमारूढे-अध्यासितेचटिते, सम्प्रान्ते सन्मात्रे-सर्वथाऽसद्व्यावृत्ते सदेव-सन्मात्रे सर्वथा सत्स्वरूपे निर्विकल्पके-विकल्पमात्रशून्ये-नयादिकृतविकल्पानामत्यन्ताभावरूपे ब्रह्मणि, 'विकल्पौघासहिष्णुत्वं भूषणं न तु दूषणम्' तर्कभ्रान्तिभेदादिरूपविकल्पानां य-ओघः समूहः (प्रवाह: परम्परा) तं न सहते इत्येवं शील:=विकल्पौघासहिष्णुः, तस्य भावः विकल्पौघासहिष्णुत्वं=नयादिकृतविकल्पासहनता भूषणं अलङ्काररूपं न दूषणंसुतरां दोषाभाव एव, किमपिजातीयविकल्प-मन:कर्ममात्रातीते योगजन्यानुभवसिंहासनासीने सन्मात्रे ब्रह्मणि-आत्मनि सदा निष्ठा कार्येति ॥ ४५ ॥ माधुर्यविशेषवत् सोऽर्थः अकथ्योऽत्याज्यो वर्त्ततेयो ह्याख्यातुमशक्योऽपि, प्रत्याख्यातुं न शक्यते प्राज्ञैर्न दूषणीयोऽर्थः स माधुर्यविशेषवत् ॥ ४६॥ हि-खलु योऽर्थः विकल्पप्रवाहासहिष्णुयोगजानुभवारूढ-सच्चिदानन्द-रूपो ब्रह्मणोऽर्थः, प्राज्ञैः-प्रकृष्टज्ञानिभिराख्यातुं-कथयितुं न शक्यते, प्रत्याख्यातुं-त्यक्तुं-न शक्यते दूषयितुं न योग्यः-न दूषणीयोऽस्ति स क इवाकथ्योऽत्याज्योऽदूषणीयोऽस्तीति चेदुच्यते स 'माधुर्यविशेषवत्' = माधुर्यविशेषो यथा वाचा न चोच्यते मनसा न त्यज्यते न केनाऽपि दूष्यते तथा सोऽर्थः सुधातिशायिजगदद्भूतालौकिक मधुरातिमधुरो वाचाऽवाच्योऽस्तिमनसा न त्याज्योऽस्ति न केनाऽपि वस्तुना दूषणयोग्योऽस्ति परन्तु योगजपरमानुभवज्ञानाऽऽस्वादयोग्योऽस्तीति ॥ ४६॥ योगिनां ज्ञानजं सुखं लोको न वेत्तिकुमारी न यथा वेत्ति, सुखं दयितभोगजम् । न जानाति तथा लोको, योगिनां ज्ञानजं सुखम् ॥४॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy