SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् यथा कुमारी - अविवाहिता बालिका, दयितभोगजं सुखंपरिणीतप्रियतमेन सह भोगसम्बन्धजन्यं सुखमानन्दं न वेत्ति - जानाति तथा योगिनां-परमज्ञानयोगिनां योगजानुभव - ज्ञानजन्यं तात्त्विकं स्ववशत्वात् परनिरपेक्षत्वात् सुखं परमानन्दं लोको - ज्ञानयोग- शून्यत्वेन सामान्यलोको न जानाति न ज्ञानपथं प्रापयतीत्यर्थः ॥ ४७ ॥ ८८ निर्विकल्पक समाघेरुपदेशस्य कोऽधिकारीअत्यन्त - पक्वबोधाय, समाधिर्निर्विकल्पकः । वाच्योऽयं नार्धविज्ञस्य, तथा चोक्तं परैरपि ॥ ४८ ॥ अष्टमादिरूपाप्रमत्तगुणस्थानके जायमानशुद्ध: ( निरालम्बनः - आत्ममात्रालम्बनः)उपयोगरूपनिर्विकल्पकसमाधिः, 'अत्यन्त - पक्वबोधाय ' सर्वथा परिपाकप्राप्तज्ञानयोगवत्पात्रभूताय महात्मने, 'वाच्यः' निर्विकल्पसमाधेरुपदेशो वाच्यो- दातव्यः, अयं नार्धविज्ञस्य, पूर्णपरिपक्वज्ञानादर्धज्ञानवतोऽर्थात् ज्ञानलवदुर्विदग्धस्यायं निर्विकल्पकसमाधिर्न वाच्यः, अनधिकारिणोऽर्धज्ञानदग्धस्य निर्विकल्पकसमाघेरुपदेशो न देय इति । ' तथा चोक्तं परैरपि, तीर्थान्तरीयैरपि तथा च कथितं वक्ष्यमाणमनन्तरं तत्, श्रोतव्यम् ॥ ४८ ॥ आदौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् । पश्चात्सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् ॥ ४९ ॥ प्रतिबोधप्रणालिका = आदौ - योगशिक्षाप्रारम्भे शिष्यं - शासनयोग्यमुपदेशयोग्यं शमः - विषयकषायोपशान्तिः, दम:-इन्द्रियार्थप्रत्याहारादिः, तत्तुल्यैर्गुणैः- शमदमादिगुणद्वारा ( प्रतिबोध) - उपदेशविषयं कुर्यात्-अर्थात् गुणोपदेशद्वारा शमदमादिगुणशालिनं शिष्यं कुर्यादिति । 'पश्चात्सर्वमिदं ब्रह्म' गुणोपदेशे सगुणान्वितशिष्यस्य करणानन्तरमिदं-प्रत्यक्षोपलभ्यमानं सर्वं जगद् ब्रह्म, त्वं शुद्धोऽसीति बोधयेदुपदिशेदिति ॥ ४९॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy