SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः आदित एवाज्ञस्यार्धविदग्धस्य सर्वं ब्रहमेति कथं न वदेत् ?अज्ञस्यार्धप्रबुद्धस्य, सर्वं ब्रह्मेति यो वदेत्। महानरकजालेषु, स तेन विनियोजितः ॥५०॥ सर्वथा ज्ञानयोगरहितस्य, पूर्णज्ञानयोगाद् वा पूर्णयोगज्ञानादर्धप्रबोधप्रज्ञानसंयुक्तस्य यः 'सर्वं ब्रह्मे' तिवदेदुपदिशेद्, तेनोपदेशकेनाज्ञश्चार्घप्रबुद्धश्च सोऽज्ञश्चार्धविदग्धश्चोभयात्मक उपदेश्यः शिष्यश्च 'महानरकजालेषु' घोरातिघोरेषु सप्तसु महानरकेषु विनियोजितः-स्थापितः-पातितः प्रक्षिप्त इति यावत्, सप्तनरकपातनजन्यं महापापं प्रतिबोधस्य यथायोग्यक्रमिकप्रणालिकामजानानस्य शिरस्यागतं वर्त्तते उपदेशकेन क्रमिकप्रणालिका प्रतिबोधस्यावगन्तव्येति ॥ ५०॥ प्रथमतोऽव्रतादिजनकासविकल्पेनाशुद्ध चित्तं शुद्धं कुर्यात्तेनादौ शोधयेच्चित्तं, सद्विकल्पै व्रतादिभिः। यत्कामादिविकाराणां, प्रतिसङ्ख्यान-नाश्यता॥५१॥ शुभालम्बनान्यपेक्ष्य शुभोपयोगादिरूपसद्विकल्पैः-शुभविचारमयैः । श्राद्धव्रत-श्रमणव्रतभेदैस्तेनादौ शोधयेच्चित्तं तेन पूर्वोक्तेन कारणेन चित्तमन्तः करणं प्रथमतः शोधयेत्, धर्मादियोगारम्भकालेचित्तशुद्धये पूर्वमन्तःकरणान्तःप्रविष्टानशुभोपयोगरूपानसद्विकल्पान् निष्काशयितुं सविकल्पद्वारा जन्यव्रतादिप्रवेशेन चित्तं शुद्धं-निर्मलं कुर्यात्, 'यत्कामादिविकाराणां प्रतिसङ्ख्याननाश्यता' यद्-यतः कामादिरूपभावविकाराणां प्रतिपक्षभूतविज्ञानभावनासेवनादिरूपप्रति-संख्यानेन नाशयोग्यता भवति अर्थात् काममिथ्यात्व-कषायहास्यादिनिद्रातरौद्राऽसंयमचक्षुर्दर्शनावरणासातारागद्वेषसहितमोहप्रमादादिविकाराणां प्रतिपक्षभूतविशुद्धविशिष्टशीलरूपब्रह्मचर्यसम्यग्दर्शनप्रशमादिवैराग्यश्रुतोपयोगोद्योग
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy