________________
अध्यात्मोपनिषत्
धर्मशुक्लध्यानेन्द्रियादिनिग्रहात्मकसंयमतत्तत्क्षयोपशमादिभाव -महापुण्योदयरागद्वेषसहित- मोहाभावाऽप्रमादरूप- प्रतिसंख्यानेन विध्वंसयोग्यता भवतीति ।
९०
('वञ्चनं करणानां तद्विरक्तः कर्तु मर्हति सद्भावविनियोगेन सदा स्वाऽन्यविभागवित् ' ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दं (सदालम्बनैः) अर्थैःप्रलोभ्य बाहयैरनुगृह्णीया (निगृहणीया) तथा तद् “भिन्नास्ते ह्यात्मनोऽत्यन्तं तदैतै ( द्रव्यप्राणैः) र्नास्ति जीवनम् । ज्ञानवीर्यसदाश्वास- नित्यस्थितिकारिभिः " । एतत्प्रकृतिभिः शाश्वतीभिस्तु शक्तिभिः । जीवत्यात्मा सदेत्येषाशुद्धद्रव्यनयस्थितिः । इत्यप्यत्र विचारणीयमिति ॥ ५१॥
विकल्परूपेयं माया विकल्पाऽन्तरेणैव नाश्याविकल्परूपा मायेयं, विकल्पेनैव नाश्यते । अवस्थान्तरभेदेन, तथा चोक्तं परैरपि ॥ ५२ ॥
इयं -अशुभालम्बनगताशुभोपयोगरूपासत्सङ्कल्पाऽभिन्ना, मिथ्यात्वाविरत्यज्ञानावस्थान्तरभेदभिन्ना, सांसारिकविकल्परूपा, माया - मायेव माया महेन्द्रजालसदृशी ( मायामयं विश्वं मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्) विकल्पेतरा-नाश्येन शुभालम्बनसापेक्षशुभोपयोगरूपसत्सङ्कल्पसुरभितसम्यग्दर्शनज्ञानाणुव्रतमहाव्रताद्यवस्थान्तरभेदभिन्नेन प्रमत्तादिगुणस्थानस्थितेन व्यवहारनयस्थितेन विकल्पेनैव नाश्यतेविनाशविषयीक्रियते (प्रथमतो व्यवहारनयस्थितोऽशुभविकल्पनिवृत्तिपरो भवेत् शुभविकल्पमयव्रतसेवया, हरति कण्टक एव हि कण्टकम्, भवति देशनिवृत्तिरपि स्फुटा, गुणकरी प्रथमं मनस्तथा' सेयं नटकला तावद्, यावद् विविधकल्पना, तद्रूपं कल्पनाऽतीतं तत्तु पश्यत्यकल्पकः कल्पनामोहितो जन्तुः शुक्लं कृष्णं च पश्यति, तस्यां पुनर्विलीनायामशुक्लाकृष्णमीक्षते ॥ ५२ ॥