________________
९१
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
'तथा चोक्तं परैरपि' तीर्थान्तरीयैरप्येवमेव चोक्तमस्ति तथाहि(योगवाशिष्ठे)
अविद्ययैवोत्तमया, स्वात्मनाशोद्यमोत्थया। विद्या सम्प्राप्यते राम ! सर्व-दोषाऽपहारिणी॥५३॥
'स्वात्मनाशोद्यमोत्थया अच्छेद्याभेद्यत्वादिविशिष्टस्वस्यात्मनो नाशायोद्यमेन उत्थया-जातया उत्तमया-स्वात्माऽनाश्योऽस्ति तस्य नाशः कथमिति चिन्ताजन्ययाऽत उत्तमया प्रशस्ताऽविद्ययैव, हे राम! भगवन्! सर्वेऽज्ञानजन्या ये दोषास्तेषामपहारिणी विद्या-नित्यशुच्यात्मनि, नित्यशुच्यात्मत्वबुद्धिरूपा विद्या-सम्यग्ज्ञानं सम्प्राप्यते-सम्यक्तया प्राप्यते ॥ ५३॥ विषं विषेण शममुपैति तथा विकल्पेनैव विकल्पःशाम्यति शस्त्रमस्त्रेण, मलेन क्षाल्यते मलः। . शमं विषं विषेणैति, रिपुणा हन्यते रिपुः ॥ ५४॥ ईदृशीभूतमायेयं, या स्वनाशेन हर्षद !। न लक्ष्यते स्वभावोऽस्याः, प्रेक्ष्यमाणैव नश्यति ॥५५॥
हीति खलु 'अस्त्रेणाऽस्त्रं शाम्यति' अस्त्रविद्याविशारदप्रगुणीकृतगुणविशिष्टास्त्रेणास्त्रस्य भयं शाम्यति, लोहो लोहं कर्त्तयतीतिवत्, मलेन क्षाल्यते मलः सर्वक्षारशंखपुष्पीशाल्मलीककन्दकटुका नागदमनीवनस्पत्यादिविधिकृत-चूर्णजनितकल्कपङ्करूपमलेन शरीरादिगतमलः क्षाल्यतेऽथवाऽद्यतनीयमूत्रप्रयोगेणोदरादिगतमलशुद्धिर्भवति, 'शमं विषेणैति' आयुर्वेदशास्त्रोक्तविधिना कृतविषमयौषधरूपविषेण विषं शमं शान्तिमेति प्राप्नोति, रिपुणा हन्यते रिपुः बलवता रिपुणा निर्वलो रिपुर्हन्यते इति ।
'तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते' (भक्तास्तो०) 'ईदृशीभूतमायेयं' महेन्द्रजालवत् प्रदर्शना