________________
१२
अध्यात्मोपनिषत् ऽनन्तरमसद्विकल्पजन्याविद्याऽऽलम्बनमायात्वाऽवच्छिन्नमायेव माया(प्रकृति) या स्वात्मविद्यामायया नाशेन (स्वमायानाशेन) हे हर्षद! व्यक्तिविशेष ! राजविशेष ! अस्याः मायायाः स्वभावः स्वरूपं न लक्ष्यतेन लक्षविषयीक्रियतेऽतः सदृष्ट्या प्रेक्ष्यमाणैव-प्रेक्षणविषयीक्रियमाणैव नश्यति नाशमुपयातीति ॥ ५४ ॥ ५५ ॥
शुभसङ्कल्पः कथं भविष्यत्काले विनक्ष्यति ?व्रतादिःशुभसङ्कल्पो, निर्णाश्याशुभवासनाम् । दाह्यं विनैव दहनः, स्वयमेव विनश्यति ॥५६॥
'निर्णाश्याशुभवासनाम्'-अशुभा या वासना अशुभालम्बनप्रयुक्ताऽतीतकालीनाशुभपदार्थस्मरणोत्पत्त्यनुकूलस्मृतिपरिणामि-कारणभूतसंस्कारवासनाऽस्ति तां वासनां निर्णाश्य-नितरां नाशयित्वा, व्रतादिःअणुव्रतमहाव्रतादिः यः प्रमत्तादिगुणस्थानस्थितः, शुभालम्बनजन्यशुभोपयोगरुपशुभसङ्कल्पोऽनन्तरं भविष्यत्काले स्वयमेव परकारण-निरपेक्षं सद् विनक्ष्यति-विनाशं प्राप्स्यति, यथा दाहयोग्यदाह्यवस्तुविना, दहनोऽग्निः स्वयमेव विध्यातो भवति-शान्तो भवति तथाऽत्रापि ज्ञेयम् ॥ ५६॥
नैश्चयिकी शक्ति योगिनां किमर्थमुपयुज्यते ?इयं नैश्चयिकी शक्ति-र्न प्रवृत्ति न वा क्रिया । शुभसङ्कल्पनाशार्थं, योगिनामुपयुज्यते ॥ ५७ ॥
'इयं नाश्याभाव-प्रयुक्ता, अष्टमाद्यप्रमत्तगुणस्थानीयाध्यवसायात्मिका 'नैश्चयिकी शक्तिः' विशिष्ट निश्चयरूपाऽथवा निश्चयनयसम्मता, व्रतादिनिष्ठप्रवृत्ति-क्रिया-शून्या शक्तिः आत्मनिष्ठसामर्थ्ययोगरूपा शक्तिः, 'योगिनां'-सामर्थ्ययोगप्रविष्टानां योगिनां व्रतादिविषयकशुभसङ्कल्पस्य नाशायोपयुज्यत उपयुक्ता भवति ॥ ५७ ॥