________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
क्षायोपशमिका धर्माःकदा यास्यन्ति के च स्थास्यन्ति ?द्वितीयापूर्वकरणे, क्षायोपशमिका गुणाः। क्षमाद्या अपि यास्यन्ति, स्थास्यन्ति क्षायिका:परम्। ५८।
अष्टमगुणस्थानकादौ 'द्वितीये' अस्मिंस्तु तथाविधकर्मस्थितेस्तथाविध-संख्येयसागरोपमातिक्रम भाविनि द्वितीयेऽपूर्वकरणे-अपूर्व-शुद्धपरिणामे सामर्थ्ययोगे प्रथमो धर्मसंन्याससंज्ञितः सामर्थ्ययोगः परमार्थिको भवेत् क्षपकश्रेणि-योगिनः क्षायोपशमिकाः क्षमाद्या धर्मा निवृत्ताः परं क्षायिकाः स्थास्यन्ति, अर्थात् तथाविधकर्मक्षयेण निर्वृत्ताः क्षायिका ज्ञानदर्शनाद्या गुणा-धर्माः स्थास्यन्ति-स्थिरा भविष्यन्ति । यावत् क्षायिकगुणप्राप्तिर्न भवेत्तावत् क्षायोपशमिका धर्मा आवश्यकास्त्यक्त्वौदयिकभावान् अधर्माश्च यतः क्षायिकगुणा आत्मनो मौलिकशुद्धस्वरूपाणि। औदयिकधर्माभावरूप-पृथ्वीतलात् क्षायिकभावरूपोपरिभूमिकायां-मालके गन्तुं क्षायोपशमिकभावाः निःश्रेणीकल्पाः।
('ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना श्रये' 'बाह्यवर्गमिति त्यक्त्वा धर्मसंन्यासवान् भवेत्' 'धर्मास्त्याज्याः सुसंगोत्थाः क्षायोपशमिका अपि प्राप्य चन्दनगन्धाभं धर्मसंन्यासमुत्तमम्' 'निर्विकल्पके पुनस्त्यागे न विकल्पो न वा क्रिया' इति श्लोका अप्यत्र स्मरणीया विचारणीयाश्चेति) ॥ ५८॥
किं कुर्वन् कुत्र पक्षपाती योगी दीप्तिमुपैति ?इत्थं यथा बलमनुद्यममुद्यमं च, कुर्वन् दशानुगुणमुत्तममान्तरार्थे । चिन्मात्रनिर्भरनिवेशित-पक्षपातः, प्रातर्यु-रत्नमिव दीप्तिमुपैति योगी ॥ ५९॥