SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् इत्थमेवं आन्तरार्थे (अन्तर्मध्ये भवः अण् ) आन्तरश्चासावर्थश्च तस्मिन्, आत्मान्तरिकसच्चिदानन्द- रूपमुक्तिकृते 'दशानुगुणं' यादृशी गुणस्थानकापेक्षया दशा तादृग्दशाया अनुगुणं ( अनुरूपं - अनुकूलं) यथा बलंयथाशक्ति, 'अनुद्यमुद्यममुत्तमं कुर्वन्' यथा पूर्वोक्ताष्टमादिगुणस्थानकदशास्थितः क्षायिकान्तरगुणार्थकमुत्तममुद्यमं कुर्वन् क्षायोपशमिकगुणार्थकमनुद्यमं-उद्यमाभावं कुर्वन्- विदधद् योगी, अर्थादप्राप्तगुण प्राप्तये उत्तम उद्यमः कार्यः, प्राप्तगुणप्राप्तयेऽनुद्यम इत्यर्थः एवं 'चिन्मात्रनिर्भर-निवेशितपक्षपातः' चिदेवचिन्मात्रं तत्र निर्भरं निवेशितः स्थापितः पक्षपातःसत्य श्रद्धारागाग्रहो येन सः - चिन्मात्रनिर्भरनिवेशितपक्षपात : 'प्रातर्द्युरत्नमिव दीप्तिमुपैति योगी' प्रात:कालीन - दिनमणिवत् दीप्तिं कान्तिं प्रभावमुपैति ज्ञानयोगीति ॥ ५६॥ ९४ - शास्त्रयोगी व्यवहारमार्गी, पश्चात् प्रज्ञापनीयः सहजात्मरूपवर्त्ती भवतिअभ्यस्य तु प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सद्गुरुवाक्य - निष्ठः । चिद्दर्पण - प्रतिफलत् त्रिजगद्-विवर्त्ते, वर्तेत किं पुनरसौ सहजात्मरूपे ॥ ६० ॥ 'अभ्यस्ये 'ति 'प्रविततं' प्रकर्षेण विशेषतो कालसंख्याद्यपेक्षया महत्तमं सुविस्तृतं, शास्त्रद्वारा सञ्चालित - जैनशासन-तीर्थाराधनाजनकं शास्त्रयोगरूपं व्यवहारनयदर्शित-व्यवहारमार्गं तु सम्यगभ्यस्य पुनःपुनर्जिनाज्ञामात्मसात् कृत्वा, परमज्ञानयोगिरूपसद्गुरुवाक्यनिष्ठावान्, 'प्रज्ञापनीयः', शिष्यदेश्य :उपदेश्यः, इहास्मिन्, 'चिद्दर्पण - प्रतिफलत् त्रिजगद्विवर्त्ते'=ज्ञानरूप आदर्श प्रतिफलत्-संक्रामत्-प्रतिबिम्बीभवद् यत् - त्रिजगत :- उर्ध्वाधोमध्यलोकत्रैलोक्यस्य विवर्त्ता: द्रव्याणां पर्याया रूपान्तराणि यस्मिंस्तत्, तस्मिन् 'सहजात्मरूपे'-स्वाभाविके आत्मनश्चिद्रुपे रूपे असौ - प्रज्ञापनीयोऽयं
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy