________________
९५
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
वर्त्तेत्त - वृत्तिमान् भवेत्, 'किंपुनः' कस्तत्र प्रश्न : ? कोऽप्यत्र न प्रश्नो ऽपितु तत्र प्रज्ञापनीयेन वृत्तिमता भाव्यमेवेति ॥ ६० ॥
अध्यात्मस्फुरितपरमभावेऽस्माकं पक्षपातोऽधिक एवभवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचारः । तदिह निचित- पञ्चाचारसञ्चारचारुस्फुरित=परमभावे पक्षपातोऽधिको नः ॥ ६१ ॥
'किमपि तत्त्वं बाह्यमाभ्यन्तरं वा भवतु '- बाह्यं सेन्द्रियं शरीरादितत्त्वं, आभ्यन्तरं-अतीन्द्रियमात्मादिरूपं तत्त्वमर्थात् किमपि तत्त्वं भवतुअस्तु तावत्, परन्तु निर्मल:- शुभोपयोगरुपेणाशुभमलरहितोऽथवाशुद्धो ज्ञानयोगाभिन्नो विचारो ध्यानविशेषो 'हृदि साम्यं' अन्तःकरणे बाह्याभ्यन्तरतत्त्वरूपपदार्थयोः साम्यंतुल्यमनोवृत्तिं ' वितरति ददाति' तस्मादिह - समुदिता येऽध्यात्मविशेषरूपाः पञ्चाचारास्तेषां सञ्चारः-पालनं तत्र चारुस्फुरित :- सुन्दरविकसितो यः परमः उत्कृष्टो भावोऽध्यवसायविशेषस्तस्मिन्=निचितपञ्चाचारचारुस्फुरितपरमभावे, नः - अस्माकमधिकोऽतिशयितः पक्षपातः- एष एव सत्य इति मानसः सद्भावाऽतिरेक इति ॥ ६१॥
-
ज्ञानयोगी कुत्र हर्षवान् भवति ?– स्फुटमपरमभावे नैगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी । कलितपरमभावं, चिच्चमत्कारसारं सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥ ६२ ॥