________________
अध्यात्मोपनिषत्
'यत्र' यस्मिन् परमात्मस्वरूपे, 'अशुद्धनयस्य' अशुद्धव्यवहारनिश्चयात्मकनयस्य, ‘आवापोद्वापविश्रान्ति:' आवापोद्वापयोः- अनुवृत्तिव्यावृत्त्योः प्रवृत्तिनिवृत्त्योः - अन्वयव्यतिरेकयोरूहापोहयो: (आवापोद्वापाभ्यांवाच्यवाचकभावसम्बन्धज्ञानं समुदेति, एवं व्यवहारादपि शक्तिग्रहः यथा प्रयोजकवृद्धेन घटमानयेत्युक्तंतच्छ्रुत्वा, प्रयोज्यवृद्धेन घट आनीतः। तदवधार्य पार्श्वस्थ बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति, ततश्च घटं नय, गामानयेत्यादावावापोद्वापाभ्यां (ग्रहणाऽग्रहणाभ्यां नयनाऽऽनयनाभ्यां ) घटादिपदानां कार्यान्वितघटादौ शक्तिं गृह्णाति) विश्रान्ति विरामभावः समाप्तिर्वर्त्तते अर्थात् अत्र अशुद्धनयस्य सर्वथा सम्बन्धाभावः तत् परमात्मनः स्वरूपं शुद्धाऽनुभवसंवेद्यं तत् परमात्मनः- वीतरागस्य भगवतः स्वरूपं - स्वभावरूपलक्षणं शुद्धेनाऽनुभवात्मकज्ञानेन - निरावरणपूर्वोक्तस्वरूपाऽनुभवज्ञानेन संवेदनप्रत्यक्षयोग्यं भवतीति ॥ २७ ॥
७६
गुणस्थानात् परो मार्गणातः परः परमात्मा भवति वा न वा? - गुणस्थानानि यावन्ति यावन्त्यश्चाऽपि मार्गणाः । तदन्यतर- संश्लेषो, नैवाऽतः परमात्मनः ॥ २८ ॥
'गुणस्थानानि यावन्ति' = यत्र यत्रापूर्वगुणाऽऽविर्भावस्तत्तद्गुणस्थानमिति, भव्यजीवानां निःश्रेणिरिव सिद्धि-सौधमारुरुक्षूणां गुणाद् गुणान्तररूपाणि विश्रामधामानि चतुर्दशसंख्यकानि, तत्र मिथ्यात्वसा - स्वादनमिश्राविरतदेशविरतसर्वविरतप्रमत्ताप्रमत्ता - पूर्वकरणानिवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोह क्षीणमोह – सयोग्ययोगिभेदाच्चतुर्दशविधानि गुणस्थानानि यावन्ति चतुर्दशगुणस्थानानीत्यर्थः, 'यावन्त्यश्च मार्गणाः ' =मार्गणाः-मार्ग्यन्ते आभिरिति मार्गणाः, पर्यालोचनाहेतुभूता अन्वयिधर्माः १. आवापः कस्यचित्पदस्य प्रक्षेपः । उद्वापः कस्यचित्पदस्य निःसारणम् ।
-