________________
७५
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽघिकारः गुणात्मकस्वभावेषुशाश्वतेषु निष्ठानां-नितरां स्थितिमतां ध्रुवा-नित्या स्वसमयस्वसिद्धान्तस्थितिः कथ्यते ।
अत्रेदं किञ्चित्स्मरणीयं लिख्यते तथाहि यः सदा शुद्धात्माऽनुभवः स स्वसमय उच्यते य आत्मभिन्नपुद्गलरूपपरपदार्थप्रतिच्छायायां रमणता यत्र स परसमय उच्यते गुरुत्वपीतत्वस्निग्धत्वादिप्रकाराः पर्यायाः कनकस्य, तेषु रमणतारूपा या दृष्टिः सा पर्यायदृष्टिः, तां परिहाय सर्वपर्यायान्वयिरूपाखण्डस्वर्णादितुल्य-द्रव्ये दृष्टिः रमणतारूपेण रक्षणीयेति विधीयतेऽत्रेति।
(स्वसमयोऽनेकान्तात्मकवस्तुस्वरूपप्ररूपणात्, परसमय:- केवलनयाऽभिप्रायप्रतिपादनादिति. अनेकान्त व्य. प्र.)
(आचार्य-शङ्करेणोक्तं हि आकारस्य वास्तविकं परिवर्तनं तदा हि कथ्यते यदि आकार:स्वीय-सत्तां पृथग् रक्षितुमलं स्यात् । आकारस्तूपादानद्रव्यस्यैकावस्थारूपोऽस्ति, य स तद्-द्रव्यतोऽविच्छिन्नोऽस्ति, अत आकारस्य स्वतंत्राऽस्तित्वस्य कल्पनाऽपि कर्तुं न शक्यते एवं चाकारस्य परिवर्तनं दृष्ट्रवाऽऽकारस्य वास्तविकं परिवर्तनं ज्ञातुं नोचितमेव, यथा कश्चिद् शेते, उत्तिष्ठति, उपविशति तथापि स एव ज्ञायते नाऽन्यः कश्चिद् अतोऽन्याऽन्याकाराणां यत्प्रत्यक्षं भवति, तत्प्रत्यक्षाभासरूपमेव ज्ञेयं अनया युक्त्या विवर्त्तवादसिद्धिर्भवति, एतद् विवर्त्तवादानुसारेण ज्ञायते हि यत्प्रत्यक्षतो दृश्यमानो वास्तविकाकार:(परिवर्तन)केवलमानसिकारोपो वा विक्षेपमात्रं, तदेव शङ्कराचार्येण 'अध्यास' इति शब्देन परिभाष्यते। संस्कृत.अ.वेदान्तप. हीन्दी प्रस्ता.) ॥ २६ ॥
शुद्धानुभवसंवेदन-योग्यं परमात्मस्वरूपमस्तिआवापोद्वापविश्रान्ति-र्यत्राशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यं, स्वरूपं परमात्मनः ॥ २७ ॥