SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् ऽवस्थेत्यर्थः। अविद्या ( अज्ञान) विषयिणी अविद्यावृत्तिः- आविद्यकवृत्तिः सुषुप्तिरित्यर्थः । एवं च जाग्रदाद्यवस्थात्रयाऽन्यतमत्वं जीवस्य तटस्थलक्षणम् । अत्र केचिन्मरणमूर्च्छयोरवस्थान्तरत्वमाहुः, अपरे तु सुषुप्तावेव तयोरन्तर्भावमाहुः । ( वेदान्तपरिभाषायां ) ( माण्डक्योपनिषदि विशुद्धान्तरिकचैतन्यस्यावस्था तुरीयावस्था ) ॥ २४ ॥ ७४ शब्दब्रह्मज्ञानाऽनन्तरं परं ब्रह्माऽधिगम्यते अधिगत्या ऽखिलं शब्द- ब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्माऽनुभवेनाऽधिगच्छति ॥ २५ ॥ 'मुनिः शास्त्रदृशाऽखिलं शब्दब्रह्माधिगत्ये' ति = जगत्तत्त्वज्ञानी मुनिः शास्त्रैकचक्षुषा समस्तं शुश्रूषादिग्रहणादितस्तात्पर्यान्तं शब्दब्रह्म - श्रुतज्ञानरूपं ब्रह्माधिगत्यप्राप्यार्थाद् शास्त्रदृष्टिं विना शास्त्रज्ञानमसम्भवि-शास्त्रदृष्टयविनाभाविसमस्तशास्त्रज्ञानं, तदनन्तरमेव, 'स्वसंवेद्यं परं ब्रह्माऽनुभवेनाऽधिगच्छति=स्वसंवेदनप्रकाशगम्यं 'परं ब्रह्म'-परमात्मानं, परमपदरूपनिर्वाणं वा स्वविशुद्धात्मानं अनुभवेन (१) यथार्थवस्तुस्वरूपोपलब्धिपरभावाऽरमण- तदास्वादनैकत्वरूपानुभवेन (२) प्रातिभज्ञानरूपानुभवेनाधिगच्छति-प्राप्नोतीत्यर्थः ॥ २५ ॥ स्वसमयपरसमयस्थयोर्भेदज्ञानम् - ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां, ध्रुवा स्वसमयस्थितिः ॥ २६॥ ये महात्मानः, आत्मस्वभावाद्भिन्नेषु क्षणिकेषु वस्तुनो अवस्थाविशेषपर्यायेषु निरताः नितरां परायणा: - रमणतावन्तस्ते पुरुषा हि निश्चयतः 'अन्यसमयस्थिताः' परसमये स्वसमयसिद्धान्तविरुद्धान्यसिद्धान्ते स्थितिमन्तो ज्ञेयाः, 'आत्मस्वभावनिष्ठानां ध्रुवा स्वसमयस्थितिः' आत्मनो
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy